वाचस्पत्यम्
व्रह्मदण्ड is an alternate of ब्रह्मदण्ड. ब्र(व्र)ह्मदण्ड || पु० ब्रह्मणो दण्डः । १ ब्रह्मणदण्डे २ अभि- शापरूपे दण्डे “ब्रह्मदण्डहता ये च विद्युदग्निहताश्च ये” ति० त० षोडशीश्राद्धमन्त्रः । ३ वसिष्ठसिद्धयष्टिरूपे दण्डे च । “धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं परम् । एकेन ब्रह्मदण्डेन बहवो नाशिता मम” रामा० अयो० विश्वामित्रवाक्यम् । ४ ब्राह्मणयष्टिवृक्षे शब्दच० । ५ विप्रल यष्टौ च । ६ केतुभेदे वृ० स० ११ अ० । केतुशब्दे दृश्यम् ।