संस्कृत-शब्दकोशः

व्रह्मद्विष् व्रह्मनिर्वाण

व्रह्मनाल

वाचस्पत्यम्

व्रह्मनाल is an alternate of ब्रह्मनाल. ब्र(व्र)ह्मनाल ||‍ न० ब्रह्मणो नालमिव । काश्यां मणिकर्णिका समीपस्थे तीर्थभेदे । “पितामहेश्वरं लिङ्गं ब्रह्मनालो- परि स्थितम् । पूजयित्वा नरो भक्त्या ब्रह्मलोक- मवाप्नुयात् । ब्रह्मम्रोतःसमीपे तु कृतं करम शुभा- शुमम् । परामक्षयतामेति शुभमेव ततश्चरेत् । अनल्प- मपि यत् कर्म कृतमत्र शुभाशुभम् । प्रलयेऽपि न तस्यास्ति प्रलयो मुनिसत्तम! । नाभीतीर्थमिदं प्रोक्तं नाभीभूतं यतः क्षितेः । अपि ब्रह्माण्डगोलस्य नाभि रेषा शुभोदया । सा माणिकर्णिकेयीयं नाभिगाम्भीर्य्य- भूमिका । ब्रह्माण्डगोलकं सर्वं यस्यामेति लये लयम् । ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्सङ्गमे नरः स्नातः कोटिजन्ममलं हरेत् । ब्रह्मनाले पतेदुयेषा- मपि कीकसमात्रकम् । ब्रह्माण्डमण्डपान्तस्ते न विशन्ति- कदाचन” काशीख० ६१ अ० ।



Correction: