संस्कृत-शब्दकोशः

व्रह्मनिर्वाण व्रह्मपत्र

व्रह्मन्

वाचस्पत्यम्

व्रह्मन् is an alternate of ब्रह्मन्. ब्र(व्र)ह्मन् ||‍ न० वृं ह—मनिन् “वृंहेर्नोऽच्चेति” उणा० नकारस्या- कारे ऋतो रत्वम् । १ देवे “तस्मादेत्दु ब्रह्म नाम रूपमन्नञ्च जायते श्रुतिः” । “तेन ब्रह्म हृदा” भाग० १ । १ । १ । २ तषसि, ३ सत्ये ४ तत्त्वे यथार्थे अमरः । सर्वगुणा- तीते विशुद्धे तुरीये ५ चित्स्वरूपे च । ६ हिर- ण्यगर्भे ७ विप्रे ८ ऋत्विग्विशेषे च पु० अमरः । विष्कम्भा- दिषु पञ्चविंशे ९ योगे मेदि० । लज्जवलदत्तेन दन्तोष्ठ्यादि त्वेन साधितम् मेदिनीकरेण ओष्ठ्यादित्वेन कीर्त्तनात्तथा- मपि । ब्रह्म च सच्चिदानन्दात्मकम् । तच्च तस्य स्वरू- पलक्षणम् । विवरणानुसारिणस्तु “आनन्दो विषयानु- भवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवाव- भासन्ते” इति तत्रोक्तौ मिथ्याभावः सत्यत्वम् अज्ञानभाव- श्चित्त्वम् । दुःखाभाव आनन्द इत्याहुः । तेषामभावानाञ्च ब्रह्मरूपाधिकरणे स्थितत्वात् अभावस्याधिकरणस्वरूपतया ब्रह्मरूपत्वमिति । तस्य तटस्थलक्षणञ्च जगज्जन्मस्थिति प्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वं तेन नव- लक्षणवत्त्वम्” वेदान्तप० । अतएवोक्तं श्रीधरेण “विश्वसर्ग- विसर्गादिनवलक्षणलक्षितमिति” । तच्च ब्रह्म द्विविधं निर्गुणं सगुणञ्च । सच्चिदानन्दात्मकस्यै व निर्गुणत्वं जग- ज्जन्मादिकर्तुश्च सगुणत्वम् । जाग्रदाद्यवस्थात्रयसाक्षिणश्च सगुणत्वं अवस्थात्रयातीतस्य चतुरीयसंज्ञा “शिवमद्वैतं चतुर्थं मन्यन्ते” इति श्रुतेस्तथात्वम् । तत्र तस्य तटस्थलक्ष- णाभिप्रायेण “जन्माद्यस्य यतः” शा० स० “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभि संविशन्ति तज्जिज्ञासस्व ब्रह्मेति” श्रुतिश्च प्रववृते तस्य स्व- रूपलक्षणाभिप्रायेण “निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम्” इत्याद्याः श्रुतयः प्रवृत्ताः । आत्मबोधे तु तस्य ब्रह्मणोऽखिलवस्त्वपेक्षया श्रेष्ठत्वाद्ब्रह्मत्वमुक्तं यथा “यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् । यद् दृष्ट्वा नापरं दृश्यं यद्भुत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यबधारयेत् । तिर्य्यगूर्द्धमधः पूर्णं सचिदानन्दमद्वयम् । अनन्तं नित्यमेकं यत्तदिब्रह्मे- त्यबधारयेत् । अतद्व्यावृत्तिरूपेण वैदान्तैर्लक्ष्यतेऽद्वयम् । अखण्डानन्दमेकं यत् तद्ब्रह्मेन्यवधारयेत् । दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चि- दानन्दमद्वयम् । सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत्” । तच्च निर्गुण- मपि गुणभेदेन नानारूपं यथोक्तम् “ब्रह्मैकं मूर्त्तिभेदस्तु गुणभेदेन सन्ततम् । तद्ब्रह्म द्विविधं बस्तु सगुणं निर्गुणं शिव! । मायाश्रितो यः सगुणो माया- तीतञ्च निर्गुणः । स्वेच्छामयश्च भगवानिच्छया विकरोति च । इच्छाशक्तिश्च प्रकृतिः सर्वशक्ति- प्रसूः सदा । केचिदेकं वदन्त्येवं ब्रह्म ज्योतिः सनातनम् । केचिद्वदन्ति द्विविधं ब्रह्मप्रकृतिपू- र्वकम् । शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम् । तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम्” । अथवैकं परं ब्रह्म द्विविधं भवतीच्छया । इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः सदा” ब्रह्मवैवर्त्ते जन्मख० ४३ अ० । तस्य नवधा रूपं यथा “योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् १ । जयोतिरभ्यन्तरे नित्य रूपं २ भक्ता वदन्ति यम् । वेदा वदन्ति सत्यं ३ यं नित्यमाद्यं ४ विचक्षणाः । यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभुम् ५ । सिद्धेन्द्रास्य्नयः सर्वे सर्वरूपं ६ वदन्ति यम् । यमनिर्वचनीयञ्च योगीन्द्रः शङ्करोवदेत् ७ । स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम् ८ । शेषो वदेदनन्तं ९ यं नवधारूपमीश्वरम् । तर्काणामेव षण्णां यं षड्विधं रूपमीश्वरम् । वैष्णानामेकरूपं वेदा- नामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृ- तम् । न्यायोनिर्वर्णनीयज्ञ यन्मतं शङ्करोऽव्रवीत् । नित्यं वैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः । सांख्यो वदति तं देवं ज्योतोरूपं सनातनम् । मीमांसा सर्वरूपञ्च वेदान्तः सर्वकारणम् । पातञ्चलोऽप्यनन्तञ्च वेदाः सत्य- स्वरूपकम् । स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम्” इति तत्रैव १२८ अ० । अन्यथाऽपि सत्त्वादिगुणभेदेन तस्य चतुर्धारूपं यथा “चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयञ्च करोत्यन्ते चतुर्भेदो जना- र्दनः । एकेनांशेन ब्रह्माऽसौ भवत्यव्यक्तमूर्त्तिमान् । मरीचिमिश्राः पतयः प्रजानामन्यभागतः । कालस्तृतीय- स्तस्यांश सर्वभूतानि चापरः । इत्यं चतुर्धा संसृष्टौ वर्त्ततेऽसौ रजोगुणः । एकांशेन स्थितो विष्णुः करोति परिपालनम् । मन्वादिरूपी चान्येन कालरूपी परेण च । सर्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः । सत्त्वं गुण- मुपाश्रित्य जगतः पुरुषोत्तमः । आश्रित्य तमसो वृत्ति मन्तकाले तथा प्रभुः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः । अग्न्यन्तकादिरूपेण भागेनान्तेन वर्त्तते । कालस्वरूपो भागोऽन्यः सर्वभूत्यानि चापरः । विनाशं कुर्वतस्तस्य चतुर्द्धैवं महात्मनः” विणुपु० १ अंशे २१ अ० । येधाश्च रजोगुणप्रधानोपाधिकः कार्य्य ब्रह्मा । ऋत्विग्- भेदश्च अच्छावाकशब्दे ८५ पृ० दर्शितेषु प्रधानेषु चतुर्षु ऋत्विक्षु मध्ये एकतमः । “त्रयाणामपराधे तु व्रह्मा परिहरेत् सदा” सामा० भाष्यधृतकारिका । “त्रया- णामध्वर्य्यूद्गातृहीतॄणां वेदत्रयविदां मध्ये ऋत्वि- गेको ब्रह्मनामको वेदत्रयन्मन्त्रतद्विहितकर्मविषये अप- राधो न्यूनभावो यदि जायते तस्यापराधस्य प्ररिहारं प्रतीकारं कुर्य्यात्” इति तदर्थः । “यज्ञस्य हैष भिषक् ब्रह्मेति” भाष्यधृतश्रुत्यन्तरम् । अतएवास्य कृताकृता- वेक्षणार्थं वरणमन्यत्रोक्तम् । १० वृहस्पतौ च ब्रह्मपुरो- हितशब्दे दृश्यम् ।



Correction: