वाचस्पत्यम्
व्रह्मप्रसूत is an alternate of ब्रह्मप्रसूत. ब्र(व्र)ह्मप्रसूत || त्रि० ३ त० । १ ब्रह्मजाते जहति २ ब्राह्मणारब्धे कर्मणि न० । “यत् क्षत्रियोऽब्राह्मणो भवति स यद्ध किं च कर्म कुरुतेऽप्रसूतं ब्रह्मणा मत्रेण न हैवास्मै तत् सगृध्यते तस्माद् क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मार्ध्यते” शत० ब्रा० ४ । १ । ४ । ६ ।