संस्कृत-शब्दकोशः

व्रह्मबध्या व्रह्मबिन्दु

व्रह्मबन्धु

वाचस्पत्यम्

व्रह्मबन्धु is an alternate of ब्रह्मबन्धु. ब्र(व्र)ह्मबन्धु ||‍ पु० ब्रह्मा विप्रो बन्धुरुत्पादको यस्य ब्रह्मणो विप्रस्य बन्धरिव वा । १ विप्राचाररहिते निन्द्यकर्मकारिणि जात्या विप्रे २ विप्रतुल्ये भट्टादौ च । “अस्मत्कुलीनो- ऽननूच्य ब्रह्मबन्धुरिव भवति” छा० उ० । “हे सौम्या- ऽननूच्यानधीत्य ब्रह्मवन्धिर्व भवतीति ब्राह्मणान् बन्धून् व्यपदिशति न स्वयं ब्राह्मणवृत्तः” इति भा० । विप्र- वंश्यापकृष्टब्राह्मणस्यापि दैहिकदण्डनिषेधो यथा “वपनं द्रविणादानं स्थानान्निर्वासनन्तथा । एष हि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग० १ स्क०



Correction: