वाचस्पत्यम्
व्रह्मरात is an alternate of ब्रह्मरात. ब्र(व्र)ह्मरात || न० ब्रह्म तज्ज्ञानं रातं यस्मै । १ शुकदेवे “ब्रह्म- रातो मृशं प्रीतो विष्णुरातेन संसदि” भाग० १ । ८ । २७ । २ याज्ञवल्क्ये मुनौ हेमच० ब्रह्मरातिरिति वापाठः । तेन हि जनकाय ब्रह्मविद्यायादानात् तथात्वम् वृहदा- हरणकोपनिषदि तत्कथा दृश्या ।