वाचस्पत्यम्
व्रह्मवादिन् is an alternate of ब्रह्मवादिन्. ब्र(व्र)ह्मवादिन् || पु० ब्रह्म वेदं वदति पठति वद—णिनि । १ वेदपाठले । ब्रह्म शुद्धं चैतन्यं सर्वात्मकतया वदति वद—णिनि । ३ वेदान्तप्रतिपाद्यसर्वात्मकब्रह्मनिर्णयार्थकथा- भेदरूपवादयुते । “ब्रह्मवादिनो वदन्ति” छा० ल० । शुद्धचै- तन्यं वदति बोधयति । ४ ब्रह्मबोधके शास्त्रे जटा० । ५ हायत्र्यां स्त्री ङीप् । सा च निर्गुणब्रह्मप्रतिपादिकेति तस्यस्तथात्वम् । “आयाहि वरदे! देवि! त्र्यक्षरे! ब्रह्मवादिनि!” गायत्र्यावाहनमन्त्रः ।