वाचस्पत्यम्
व्रह्मशासन is an alternate of ब्रह्मशासन. ब्र(व्र)ह्मशासन || न० ६ त० । तत्तत्कार्य्येषु ब्रह्मकर्त्तृके १ नियो- जने । तेन च यथा यस्य शासनं कृतं यथा पृथिव्या धार- णाय वायोर्वहनाय सूर्य्यादीनां प्रकाशनाय इत्यादि तत्तथैव तैः शासनमनुपाल्यते एवं वर्णाश्रमादिकर्मानुशासनमपि तेनैव अनुशिष्टम् “श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य बर्त्तते । णाज्ञाच्येदी मम द्वेषी नरकं प्रतिपद्यते” भगवदुक्तेः । ब्रह्मणो वेदस्यानुशासने २ कर्त्तव्यतोपदेशे च । अधि- करणे ल्युट् । ३ ब्रह्मविचारगृहे शब्दरत्ना० ।