संस्कृत-शब्दकोशः

व्रह्मसात् व्रह्मसायुज्य

व्रह्मसामन्

वाचस्पत्यम्

व्रह्मसामन् is an alternate of ब्रह्मसामन्. ब्र(व्र)ह्मसामन् ||‍ न० सामभेदे तच्च साम ताण्ड्यब्रा०४ । ३ । १ दर्शितं यथा “अथास्मिन्नेवाहनि मध्यन्दिनसवने ब्राह्म- णाच्छंसिनः पृष्ठस्तोत्रनिवर्त्तकमेकं साम विधत्ते भा० “अभीवर्त्तो ब्रह्म साम भवति” ताण्ड्यब्रा० “तञ्चोदञ्च मृतीसहमित्यस्यां योनावुत्पन्नं साम अभीवर्त्ताख्यम् एतत् साम ब्राह्मणाच्छंसी पृष्ठस्तोत्रमनुशंसति, तच्च वक्ष्य- माणासु ऋक्षु कर्त्तव्यम्” अथैतन्नामनिर्वचनेन प्रशं- सति भा० । “अभीवर्त्तेन वै देवाः खर्गं लोकमभ्यवर्त्तन्त यदभीवर्त्तो ब्रह्म साम भवति स्वर्गस्य लोकस्याभिवृत्त्यै” ब्रा० । “अभीवर्त्ताख्येन सान्या देवाः स्वर्गं लोकमभ्य- वर्त्तन्त अगच्छन् अतएवास्याभिवृत्तिसाधनत्वादस्य साम्नो- ऽभीवर्त्त इति संज्ञा निष्पन्ना । अतएव शाट्यायनकं “यदभ्यवर्त्तन्त तदभीवर्त्तस्याभीवर्त्तत्वमिति” । अभिपूर्वाद्- वृत वर्त्तने इत्यस्मात् करणे धञ् । उपसर्गस्य घञ्यमनुष्ये बहुलमिति पूर्वपदस्य दीर्घः । एवं सति अस्मिन्नहनि अभीवर्त्तो ब्रह्मणः पृष्ठ्यसाम भवतीति यत् तत् स्वर्गस्य लोकस्याभिवृत्यै अभिवर्त्तनायाभिगमनाय सत्रिणां मवति” भा० । तच्च साम ऊहगाने । ६ प्र० १४ क० दर्शितम् ।



Correction: