वाचस्पत्यम्
व्रह्मसावर्णि is an alternate of ब्रह्मसावर्णि. ब्र(व्र)ह्मसावर्णि || पु० दशमे मनुभेदे “दशमी ब्रह्मसावर्णि रुपश्लोकसुतो महान् । तत्सुता भूरिसेनाद्या हविष्मत्- प्रमुखा द्विजाः । हविष्मान् सुकृतः सत्यो जयो मूर्त्ति- स्तदा द्विजाः । सुवासनविरुद्धाद्या देवाः शम्भुः सुरे- श्वरः । विष्वक्मेनो विषुच्यान्तु शम्भोः सख्यं करिष्यति । जातः स्वांशेन भगवान् गृहे विश्वसृजां प्रभुः” भाग० ८ । १३ । १०