संस्कृत-शब्दकोशः

व्रह्मस्व व्रह्महत्यासम

व्रह्महत्या

वाचस्पत्यम्

व्रह्महत्या is an alternate of ब्रह्महत्या. ब्र(व्र)ह्महत्या ||‍ स्त्री० हन—क्यप् ६ त० । विप्रहनने । तस्य म- हापातकत्वमुक्तं मनुना “ब्रह्महत्या सुरापानं स्तेयं गुर्व- ङ्गनागमः । महान्ति पातकान्येव संसर्गश्चापि तैः सह” तदधिष्ठातृस्वरूपमुक्तं ब्रह्मवै० पु० जन्म० ४७ अ० यथा “रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी । सप्तताल- प्रमाणा सा शुष्ककण्ठौष्ठतालुका । ईशाप्रमाणदशना महाभीतञ्च कातरम् । धावन्तं परिधावन्ती बलिष्ठाहत- चेतनम् । खङ्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छि- तम् । इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोः पदम् । विवेश मानससरो मृणालसूक्ष्मसूत्रतः । तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात्” । वृत्रा सुरवधनिमित्तकब्रह्महत्यापनोदनार्थं शक्रेणाश्वमेधे- कृते तस्या विभज्य स्थानविशेषे संक्रामणकथा भा० उ० उ० १२ अ० यथा “तत्राश्वमेधः सुमहान् महेन्द्रस्य महात्मनः । ववृते पावनार्थं वै ब्रह्महत्यापहो नृप! । विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च । पर्वतेषु पृथिव्याञ्च स्त्रीषु चैव युधिष्ठिरः!” आतिदेशिकब्रह्महत्याः कतिचित् ब्रह्मवै० प्रकृ० २७ अ० उक्ता यथा “श्रीकृष्णे च तदर्च्चायां तन्मय्यां प्रकृतौ तथा । शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यतनौ तथा । गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि! । यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत् तु सः । स्वगुरौ स्वेष्टदेवेषु जन्मदा- तरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत् तु सः । वैष्णवेष्वन्यभक्तेषु, ब्राह्मणेष्वितरेषु च । करोति स- मतां यो हि ब्रह्महत्यां लभेत् तु सः । हरेः पादो- देकेष्वन्यदेवपादोदके तथा । करोति समतां यो हि ब्रह्महत्यां लभेत् तु सः । विमूढो विष्णुनैवेद्ये चान्य- नैवेद्यके तथा । करोति समतां यो हि ब्रह्महत्यां लभेत् तु सः । सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे । सर्वाद्ये सर्वदेवानां सेव्ये सर्वात्मनात्मनि । मायया मेकरूपे वाप्येकत्रैव हि निर्गुणे । करोत्यनेन समतां ब्रह्महत्यां लभेत् तु सः । पितृदेवार्च्चनं पौर्वापरं वेदविनिर्मितम् । यः करोति तन्निषेधं ब्रह्महत्यां स विन्दति । ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते । ये निन्दन्ति विष्णुमायां विष्णुभक्तिप्रदां सतीम् । सर्वशक्तिस्वरूपाञ्च प्रकृतिं सर्वमातरम् । सर्वदेवस्वरूपाञ्च सर्वाद्यां सर्व- वन्दिताम् । सर्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते । कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् । शिव- रात्रिं तथा चैकादशीं वारं रवेस्तथा । पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः । लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः । अम्बुवाच्यां भूखननं जले शौचादिकञ्च ये । कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते । गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् । अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत् तु सः । विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत् तु सः । हरेर- नैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिव- लिङ्गं वा ब्रह्महत्यां लभेत् तु सः” । आतिदेशिक्या- स्तस्या विनाशनं हरिस्मरणगङ्गास्नानादि ।



Correction: