वाचस्पत्यम्
व्रह्महन् is an alternate of ब्रह्महन्. ब्र(व्र)ह्महन् || त्रि० ब्र(व्र)ह्माणं हतवान् हन—क्विप् । १ विप्र- हत्याकारिणि । “ब्र(व्र)ह्महा न भवत्यन्यो ब्र(व्र)ह्महा वृषलीपतिः । यस्तस्यामाहितोगर्भः स तेन ब्रा(व्रा)ह्मणो हतः” इत्युक्ते २ वृषलीतौ च । “क्षुतोत्पतनजिह्मासु जीवो- त्तिष्ठाङ्गुलिध्वनिः । गुरोरपि च कर्त्तव्यमन्यथा ब्रह्महा भवेत्” ३ इत्यादिस्मृत्युक्तातिदेशिकब्र(ब्र)ह्महत्यापापयुक्ते च । तत्प्रायश्चित्तं मनुनोक्तं यथा ||“ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् १ । लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः २ । प्रास्ये- दात्मानमग्नौ वा समिद्धे त्रिरावाक्शिराः ३ । यजेत वा- श्वमेधेन ४ स्वर्जिता ५ गोसवेन वा ६ । अभिजिद्विश्वजिद्भ्यां ७ । ८ वा त्रिवृताग्निष्टुतापि ९ वा । जपन् वान्यतमं १० । वेदं यो- जनानां शतं व्रजेत् ११ । ब्रह्महत्यापनोदाय मितभुङ् निय- तेन्द्रियः । सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् १२ । धनं षा जीवनायालं गृहं वा सपरिच्छदम् १३ । हविष्यभुग् वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् १४ । जपेद्वा नियताहार- रिवर्वै वेदस्य संहिताम् १५ । कृतवापनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः । ब्रह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्य- जन् १६ । मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च । त्र्यवरं प्रतियोद्धा वा१ ७ सर्वस्वमवजित्य वा । विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते” ।