संस्कृत-शब्दकोशः

व्रह्मादनी व्रह्मापेत

व्रह्मानन्द

वाचस्पत्यम्

व्रह्मानन्द is an alternate of ब्रह्मानन्द. ब्र(व्र)ह्मानन्द ||‍ पु० ब्रह्मस्वरूपानन्दे तस्य मनुष्यादी- नामानन्देभ्यः श्रेष्ठत्वम् शत० ब्रा० १४ । ७ । १ । ३१ वा क्यादौ उक्तं यथा “एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यै- वानन्दस्यान्यानि भूतानिं मात्रामुपजीवन्ति । स यो मनुष्यणां राद्धः समृद्धो भवति । अन्येषामधिपतिः सर्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणां परम आनन्दः । अथ ये शतं मनुष्याणामानन्दाः । स एकः पितॄणां जितलोकानामानन्दः । अथ ये शतं पितॄणां जितलोकानामानन्दाः । स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते । अथ ये शतं कर्म- देवानामानन्दाः । स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतमाजान- देवानामानन्दाः । स एको देवलोक आनन्दो यश्च श्रो- त्रियोऽवृजिनोऽकामहतः । अथ ये शतं लोक आ- नन्दाः । स एको गन्धर्वलोक आनन्दो यश्च श्रोत्रि- योऽवृजिनोऽकामहतः । अथ ये शतं गन्धर्वलोक आ- नन्दाः । स एकः प्रजापतिलोक आनन्दः अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आ- नन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः एष ब्रह्मलोकः सम्राडिति” मू० । “परमो मोक्षलक्षणो लोकः स्वयं- ज्योतिःस्वभाबो लोकशब्दस्य मुख्यवृत्तिविषयः- स्वाभाविकः । परमः स्वरूपानुभबलक्षणो मुख्यो निर- तिशय आनन्दः पूर्णानन्दः । किं च वस्तुतो नास्त्ये- वात्ममुखातिरिक्तं वैषयिकमपि सुखमित्याह एतस्यैव ब्रह्मानन्दस्य मात्रां कलाम् अन्यानि अविद्यया ब्रह्मणो- ऽन्यत्वेन परिकल्पितानि ब्रह्यादिस्तम्बपर्य्यन्तानि भूता- न्युपजीवन्ति उपभुञ्जते तावन्मात्रेणैवानन्दीनि भव- न्तीत्यर्थः । मानुषानन्दमारभ्य ब्रह्मानन्दपर्य्यन्तमुत्तरो- त्तरशतगुणितातिशयशालिनां परब्रह्मानन्दावयववानां प्रतिपादनद्वारेणावयविनं निवृत्तगणितभेदमनतिशयं ब्रह्मानन्दं दर्शयितुमुत्तरा श्रुतिः प्रवर्त्तते” भा० ।



Correction: