संस्कृत-शब्दकोशः

व्रह्मारण्य व्रह्मावर्त्त

व्रह्मार्पण

वाचस्पत्यम्

व्रह्मार्पण is an alternate of ब्रह्मार्पण. ब्र(व्र)ह्मार्पण ||‍ न० १ सर्वकर्मकर्त्त्राद्यात्मकतया ब्रह्मचिन्तने ब्रह्मणि परमात्मनि ईश्वरे २ सर्वकर्मफलानां सन्यासे च तत्- प्रकारः कूर्मपु० ४ अ० उक्तो यथा “ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् । नाहं कर्त्तासर्वमेतद्ब्रह्मैव कुरुते तथा । एतत् ब्रह्मार्पणं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः । प्रीणातु भगवानीशः कर्मणा- ऽनेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् । यद्वा फलानां सन्न्यासं प्रकुर्य्यात् परमेश्वरे । कर्मणामेत- दप्याहुर्व्रह्मार्पणमनुत्तमम्” ।



Correction: