वाचस्पत्यम्
व्रह्मासन is an alternate of ब्रह्मासन. ब्र(व्र)ह्मासन || न० ६ त० । ब्रह्मण ऋत्विग्भेदस्य १ आसने ब्रह्मास्तरणादयोऽप्यत्र । ब्रह्मणस्तदुपासनाङ्गमासनम् । २ पद्मस्वस्तिकादौ आसने । “ब्रह्मासनं तदावक्ष्ये यत् कृत्वा ब्राह्मणो भवेत् । एकपादमूरौ दत्त्वा तिष्ठेद्दण्डा- कृतिर्भवेत्” रुद्रया० उक्ते देवपूजाङ्गे ३ आसनभेदे च ।