वाचस्पत्यम्
व्रह्मिन् is an alternate of ब्रह्मिन्. ब्र(व्र)ह्मिन् || पु० ब्रह्मवेदस्तपो वाऽस्त्यस्य शेषतया ब्रीह्या० इनि टिलोपः । वेदतपसोः शेषीभूते १ परमेश्वरे । तदाराधनार्थमेव तयोरनुष्ठानात् तस्य तच्छेषित्वम् । “ब्रह्मविद् ब्राह्मणो ब्रह्मी” विष्णुस० । ब्रह्म वेदो वेद्यतयास्त्यस्य इनि । २ वेदतदर्थाधिज्ञे ।