वाचस्पत्यम्
व्रह्मीघृत is an alternate of ब्रह्मीघृत. ब्र(व्र)ह्मीघृत || न० खारस्वतघृतमिति स्वाते औषधविशेषे यथा “समूलपत्रामुत्पाध्य ब्रह्मीं प्रक्षाल्य वारिणा । उदूखले खोदयित्वा रसं वस्त्रेण गालयेत् । रसे चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत् । हरिद्रा मालतीकुष्ठं वृहती च हरीतकी । एतेषां पालिकै- र्भागैः शेषास्तु कार्षिकाः स्मृताः । पिप्पल्योऽथ विड- ङ्गानि सैन्धवं शर्करा वचा । सर्वमेतत् समालोड्य शनै- र्मृद्वग्निना पचेत् । एतत् प्राशितमात्रेण वाग्विशुद्धिः प्रजायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते । अर्द्धरात्रप्रयोगेण स्वरो भवति कोकिलः । मासमेकं प्रयोगेण भवेत् श्रुतिधरो नरः । पञ्च गुल्मान् प्रमेहाश्च कासं पञ्चबिधं जयेत् । सन्ध्यानाञ्चैव नारीणां नरा- णामल्परेतसाम् । घृतं स्वारस्वतं नाम बलवर्णवपुःप्रदम्” चिकित्सारत्नसंग्रहः ।