वाचस्पत्यम्
व्रह्मोद्य is an alternate of ब्रह्मोद्य. ब्र(व्र)ह्मोद्य || न० वद—भावे क्यप् ६ त० । ब्रह्मप्रतिपादकवाक्ये कात्या० श्रौ० १२ । ४ । २० । २ ब्रह्मकथने च “ब्राह्मणा भगवन्तो हन्ताहमिमं (याज्ञ्यम्) द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यम् जेतेति” वृ० उ० ।