संस्कृत-शब्दकोशः

व्रात व्रात्य

व्रातीन

वाचस्पत्यम्

व्रातीन ||‍ त्रि० व्रातेन चरति ख । संघजीविनि । “व्रातीनव्या लदीप्रास्त्रः” भट्टिः ।


शब्दकल्पद्रुमः

व्रातीनः || पुं, (शरीरायासेन ये जीवन्ति तेषां कर्म्म व्रातं तेन जीवतीति । व्रात + “व्रातेन जीवति ।” ५ । २ । २१ । इति खञ् ।)
संघ- जीवी । इति हेमचन्द्रः ॥ (यथा, भट्टिः । ४ । १२ । “व्रातीनव्यालदीप्रास्त्रः सुत्वनः परिपूज- यन् ॥”)



Correction: