वाचस्पत्यम्
व्रात्य || पु० व्रातात् समूहात् च्यवति यत् । अव्यवहार्य्ये, संस्कारहीने, जातिमात्रोपजीविनि, “अत ऊर्द्ध्वं त्रयो- ऽप्येते यथाकालमसंस्कृताः । सावित्रीप्रतिता क्रात्या भव- न्त्यार्य्यविगर्हिताः” मनुः । तत्र प्रायश्चित्तं मिता० उक्तं यथा तत्र व्रात्यतायां मनुनेदमुक्तम् “येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथा- विध्युपनाययेदिति” । यच्च यमेनोक्तम् “सावित्रीपतिता यस्य दश वर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं कु- र्य्यात् समाहितः । एकविंशतिरात्रञ्च पिबेत् प्रसृति- यावकम् । हबिषा भोजयेच्चैव ब्राह्मणान् सप्त पञ्च वा । ततो यावकशुद्धस्य तस्योपनयनं स्मृतम्” इति । तदु- भयमपि याज्ञवल्कीयमासपयोव्रतविषयम् । यत्तु व- शिष्ठेनोक्तम् “पतितसावित्रीक उद्दालकव्रतञ्चरेत् । द्वौ मासौ यावकेन वर्त्तयेन्यासं पयसा पक्षमामिक्षयाष्टरात्रं घृतेन षड्रात्रमयाचितेन त्रिरात्रसब्सक्षोऽहोरात्रसुपव- सेदश्वमेधावभृथङ्गच्छेद्वात्यस्तोमेन वा यजेतेति” । तत्रेयं व्यवस्था यस्योपनयने आपद्भावेन तत्कालातिक्रमस्तस्य या- ज्ञवल्कीयव्रतानामन्यतमत् शक्त्यपेक्षया भवति अना- पद्यतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदश- वर्षादूर्द्धमपि कियत्कालातिक्रमे तूद्दालकव्रतम् ब्रात्य- स्तोमो वेति । येषान्तु पित्रादयोऽप्यनुपनीतास्तेषामापस्त- म्बोक्तम् “यस्य पिता पितामहावनुपनीतौ स्यातान्तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्य्यम् । यस्य प्रपितामहादेर्ना- नुस्मर्यते उपनयनन्तस्य द्वादश वर्षाणि त्रैविद्यकं ब्रह्म- चर्य्यमिति” ।
शब्दकल्पद्रुमः
व्रात्यः || पुं, (व्रातो व्यालादिः स इव । “शाखा- दिभ्यो यत् ।” ५ । ३ । १०३ । इति यत् ।)
दशसंस्काररहितः । षोडशवर्षादूर्द्ध्वं अकृतव्रत- बन्धो भ्रष्टगायत्त्रीको वा । इति भरतः ॥ तत्- पर्य्यायः । संस्कारहीनः २ । इत्यमरः ॥ सावित्री- पतितः ३ वाग्दुष्टः ४ पुरुषोक्तिकः ५ । इति जटाधरः ॥ तस्य प्रायश्चित्तादि यथा, —
“अथ व्रात्यविधिं देवि ! प्रायश्चित्तन्तु यद्भवेत् । तत् शृणुष्व महेशानि सर्व्ववर्णे विशेषतः ॥ दश वर्षाणि पञ्चैव ब्राह्मणश्चोपनीयते । एकविंशतिवर्षाणि यावद्वर्षमुपावशेत् । अत ऊर्द्ध्वं पतन्नेव सर्व्वधर्म्मबहिष्कृतः ॥ गायत्त्रीपतिता व्रात्या व्रात्यस्तोमेन संस्कृतः । अशक्ते चैव यज्ञस्य चरेदौद्दानिकं व्रतम् ॥ द्वौ मासौ यावकाहारो मासमेकं पयः पिबेत् । दध्ना च पक्षमेकन्तु सप्तरात्रं घृतेन तु ॥ अयाचितेन षड्रात्रं त्रिरात्रं बर्त्तयेज्जलैः । अहोरात्रं न भुञ्जीत ततः संस्कारमर्हति ॥ पतिता यस्य गायत्त्री दश वर्षाणि पञ्च च । प्रायश्चित्तं भवेत्तस्य प्रोवाच भगवान् शिवः ॥ सशिखं वपनं कृत्वा व्रतं कुर्य्यात् समाहितः । हविष्यं भोजयेदन्नं ब्राह्मणान् सप्त पञ्च वा ॥ एकविंशतिरात्रन्तु पिबेत् प्रसृतियावकम् । ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥ व्रतस्याचरणाशक्तौ कुर्य्याच्चान्द्रायणत्रयम् । सावित्रीपतिता येषां देशकालादिविप्लवात् ॥ चान्द्रायणं चरेद्यस्तु व्रतान्ते धेनुमुत्सृजेत् । क्षीरंवापि पिबेन्मासं दद्याद्गां वत्सशालिनीम् ॥” इति मत्स्यसूक्ते प्रायश्चित्तप्रकरणे ३८ पटलः ॥