वाचस्पत्यम्
व्राह्म is an alternate of ब्राह्म. ब्रा(व्रा)ह्म || न० ब्रह्मण इदम्, तेन प्रोक्तम् वा अण् दिलोपः । १ अङ्गुष्ठमूले तीर्थे, तेन हि तीर्थेन द्विजाचमनं विहित- मिति तस्य तत्सम्बन्धित्वम् “प्राग्वा ब्रा(व्रा)ह्मेन तीर्थेन द्विजा नित्यमुपस्पृशेत्” इति मनुम् “अङ्गुष्ठोत्तरस्ततो रेखा या पाणेर्दक्षिणस्य च । एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै” स्मृतिः । २ नारदे पु० जटा० । ब्र(व्र)ह्म- णोक्ते अष्टादशपुराणान्तर्गते ३ महापुराणभेदे न० । ४ विवाहभेदे ५ पारदे च पु० । ६ सरस्वत्यां तदधिष्ठातृकायां ७ वाचि ८ सोमलतायां ९ ब्रह्मोशाके (वामनहाटि) शाक- भेदे च स्त्री । “आवृत्तानां गुरुकुलात् विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष ब्राह्मो धर्मो विधीयते इति मनूक्ते राज्ञां १० धर्मभेदे पु० । ११ मातृभेदे स्त्री ङीप् । “ब्राह्मी नारायणी तथेति” कालकवचम् । “वृहदस्याः शरीरं यदप्रमेयं प्रमाणतः । वृहद्वि- स्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता देवीपु० उक्त- निर्वचनायां १२ देव्याञ्च स्त्री १३ ब्रह्मसम्बन्धिनिमात्रे त्रि० स्त्रियां ङीप् “एषा ब्राह्मी स्थितिः पार्थ!” गीता । सरस्वत्या ब्रह्मजातत्वं च ब्रह्माणीशब्दे दर्शितं तत्र दृश्यम् । “ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च शीतला । कषाया मधुरा स्वादुपाकायुष्या रसायनी । स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहाश्रकासजित् । विष- शोथज्वरहरी तद्वन्मण्डूकपण्यंपि” भावप्र० ब्राह्मी- शाकस्य गुणा उक्ताः । १४ वाराहीकन्दे १५ हिलमोचि- कायां स्त्री राजनि० । १६ रोहिण्यां स्त्री १७ नक्षत्रे न० तयोर्ब्रह्माधिष्ठातृदेवताकत्वात् तथात्वं “रात्रेश्च पश्चिमे भागे मुहूर्त्तो ब्राह्म उच्यते” पितामहोक्ते रात्रिशेषयामा- र्द्धस्थिते अरुणोदयकालात् प्राग्दण्डद्वयात्मके १८ काले पु० १९ ब्रह्मसम्बन्धिदिने २० तन्माने च अहन्शब्दे दृश्यम् ।