वाचस्पत्यम्
व्राह्मणचक्षुस् is an alternate of ब्राह्मणचक्षुस्. ब्रा(व्रा)ह्मणचक्षुस् || न० ब्राह्मणस्य सर्वार्थप्रकाशकत्वात् चक्षु- रिव । “श्रुतिस्मृती च विपाणां चक्षषी देवनिर्मिते । काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्त्तितः” हरीतोक्ते सर्वार्थप्रकाशकत्वेन विप्रस्य चक्षस्तुल्ये वेदस्मृतिरूपे पदार्थे ।