वाचस्पत्यम्
व्राह्मणजीविका is an alternate of ब्राह्मणजीविका. ब्रा(व्रा)ह्मणजीविका || स्त्री ६ त० । याजनाध्यापनप्रति- ग्रहरूपायां ब्राह्मणवृत्तौ “ब्राह्मणा ब्रह्मयोनिस्था ये स्व- कर्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षट् कर्माणि यथा- क्रमम् । अध्यापनमध्ययनं यजनं याजनन्तथा । दानं प्रतिग्रहश्चैव षटकर्माण्यग्रजन्मनः । षण्णान्तु कर्मण मस्य- त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशु- द्धाच्च प्रतिग्रह” मनुः । ब्राह्मणवृत्तिरप्यत्र स्त्री ।