संस्कृत-शब्दकोशः

व्राह्मणसम व्राह्मणादि

व्राह्मणाच्छंसिन्

वाचस्पत्यम्

व्राह्मणाच्छंसिन् is an alternate of ब्राह्मणाच्छंसिन्. ब्रा(व्रा)ह्मणाच्छंसिन् ||‍ पु० ब्राह्मणे मन्त्रेतरवेदभागे विहि- तानि शस्त्राणि उपचारात् ब्रह्मणानि तानि शंसति द्वितीयायार्थे पञ्चम्युपसंख्यानम् तस्याः “ब्राह्मणाच्छंसिन उपसंख्यानम्” वार्त्ति० अलुक् । ब्रह्मरूपस्य ऋत्विजः सहकारिणि ऋत्बिग्भेदे अच्छावाकशब्दे ८५ पृ० दृश्यम् । अत्र कश्चिद्विशेषोऽभिधीयते । षोडर्त्विजां मध्ये प्रधान- भूतान् चतुर उक्त्वा कात्या० श्रौ० ७१८९१० । उक्तं यथा “तत्पुरुषा इतरे यथावेदम्” सू० “इतरे द्वादशर्त्विजो तेषामाद्यानां ब्रह्मादीनां चतुर्णां पुरुषाः आदेशकारि- णोऽनुचराः सेवकाः यथावेदमिति ये यद्वेदविहितस्य कर्मणः कर्त्तारस्ते तत्पुरुषाः यथावेदमिति ये ब्रह्मपुरुषा न ज्ञायन्त इति तान् स्वयमेवाह” कर्कः “ब्रह्मणाच्छं- स्यग्नीत्पीतारो ब्रह्मणः” सू० । प्रधानपुरुषवरणेन तद्वशवर्त्तित्वात्तेऽपि वृता एव भवन्ति प्रधानपुरुषे कार्य्या- न्तरासक्तेऽन्यत्र गते वा तदीयं कर्म तत्पुरुषैरेव कर्त्तव्यम् नान्यपुरुषैरिति पुरुषाणामपि पूर्वपूर्वेण करणसम्भवे नो- त्तरेण” । तस्य भावः कर्म वा “होत्राभ्यश्छः” पा० छ । ब्राह्मणाच्छंसीय तद्भावादा



Correction: