वाचस्पत्यम्
व्राह्मण्य is an alternate of ब्राह्मण्य. ब्रा(व्रा)ह्मण्य || न० ब्राह्मणानां समूहः भावो वा ष्यञ् । १ विप्रसमूहे । २ ब्राह्मणधर्मे ३ विप्रत्वे च । जात्यन्तरगतस्य कारणविशेषाभावे ब्राह्मण्यप्राप्तिर्नास्तीति ब्राह्मण्यस्य दुष्प्रापत्वम् भा० २८ अ० मतङ्गोपाख्याने विस्तरेण उक्तं यथा “तिर्य्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति । स जायते पुक्कशो वा चाण्डालो वाऽप्य संशयम् । पुक्कशः पापयोनिर्वा यः कश्चिदिह लक्ष्यते । स तस्यामेव सुचिरं सतङ्ग । परिवर्त्तते । ततो दशशते काले लभते शूद्रतामिति । शूद्रयोनावपि ततो बहुशः परिवर्त्तते । ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि । वैश्यतायां चिरं कालं तत्रैव परिवर्त्तते । ततः षष्टि- गुणे काले राजन्यो नाम जायते । ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् । ब्रह्मबन्धुश्चिरं कालं तत्रैव परि- वर्त्तते । ततस्तु द्विशते काले लभते काण्डपृष्ठताम् । काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्त्तते । ततस्तु त्रिशते काले लभते विप्रतामपि । ताञ्च प्राप्य चिरं कालं तत्रैव परिवर्त्तते । ततश्चतुःशते काले श्रोत्रियो नाम जायते एतच्च जात्यभिप्रायं संस्कारादिना तु विशिष्टब्राह्मण्य- लाभः यथोक्तमङ्गिरसा “चित्रं कर्म यथाऽनेकैरङ्गै- रुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारै- र्विधिपर्वकैः” । २ शनिग्रहे पु० शब्दमाला । तादृशब्राह्मण्य हानिस्तु कर्मभेदात् यथा “शूद्रां शयनमारोप्य ब्राह्म- ण्यादेव हीयते” इत्यादि ।