शब्दकल्पद्रुमः
व्रीडनं || क्ली (व्रीड + ल्युट् ।) लज्जा । यथा, — “अथ मन्दाक्षमन्दास्यं लज्जा लज्या च ह्रीस्त्रपा । व्रीडो व्रीडा व्रीडनञ्च लज्जापर्य्याय ईरितः ॥” इति शब्दरत्नावली ॥