वाचस्पत्यम्
व्रीहि || पु० व्री—हि किच्च । १ धान्यभेदे २ आशुधान्ये च अमरः । तद्भेदादिकं भावप्र० उक्तं यथा “वार्षिकाः कण्डिताः शुक्लाः व्रीहयश्चिरपाकिणः । कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि । शालामुखो जतुमुख इत्याद्याः व्रीहयः स्मृताः । कृष्णव्रीहिः स विज्ञेयो यः कृष्णतुषतण्डुलः । पाटलः पाटलापुष्प वर्णको व्रीहिरुच्यते । कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कु- टाण्डक उच्यते । शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते । लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः । व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिताः । अल्पा- भिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः । कृष्णव्रीहिर्वर- स्तेषां तस्मादल्पगुणाः परे” । ततः अस्त्यर्थे व्रीह्या० इनिठनौ । व्रीहिन् व्रीहिक तद्विशिष्टे त्रि० बिल्घा० पुराडाशभिन्ने अवयवार्थे अण् । व्रैह तदवयवे ।
शब्दकल्पद्रुमः
व्रीहिः || पुं, (वर्हति वृद्धिं गच्छतीति । वृह वृद्धौ + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । पृषोदरादित्वात् साधुः ।)
धान्यमात्रम् । आशुधान्यम् । इत्यमरः ॥ अस्य सामान्यनाम- गणना गुणाश्च यथा, —
“धान्यं भोग्यञ्च भोगार्हमन्नाद्यं जीवसाधनम् । तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ व्रीह्यादिकं यदि ह शूकसमन्वितं स्यात् यत् शूकधान्यमयमुद्गमकुष्टकादि । शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बी- धान्यं तृणोद्भवतया तृणधान्यमन्यत् । तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि । शिम्बीभवं गुरु हिमञ्च विबन्धदायि वातालकन्तु शिशिरं तृणधान्यमाहुः ॥ देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तैर्द्दैवतैर्व्वा । अस्मादेषां येषु भोगोपभोगा- स्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥ शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः । धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥ राजान्नषष्टिकसितेतररक्तमुण्ड- स्थूलाणुगन्धतिरियादिकशालिसंज्ञाः । व्रीहिस्तथेति दशधा भुवि शायनाः स्यु- स्तेषां क्रमेण गुणनामगणं ब्रवीमि ॥ व्रीहिर्गौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च । पुष्टिं दत्ते श्रमशमनकृद्वीर्य्यवृद्धिं विधत्ते रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥” इति राजनिर्घण्टः ॥ अपि च । “वार्षिकाः काण्डिताः शुक्ला व्रीहयश्चिर- पाकिनः । कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि ॥ शालमुखो जतुमुख इत्याद्या व्रीहयः स्मृताः । कृष्णव्रीहिः स विज्ञेयो यत्कृष्णतुषतण्डुलाः ॥ पाटलः पाटलापुष्पवर्णको व्रीहिरुच्यते । कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कुटाण्डक उच्यते ॥ शालमुखः कृष्णशूकः कृष्णतण्डुल उच्यते । लाक्षावर्णमुखं तस्य ज्ञेयो जतुमुखस्तु सः ॥ व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिमाः । अल्पाभिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः ॥ कृष्णव्रीहिर्व्वरस्तेषां तस्मादल्पगुणाः परे ॥” इति भावप्रकाशः ॥ तस्य यज्ञीयत्वं यथा, —
“यज्ञार्थं तन्तु भूतानां भक्ष्यमित्येव वै श्रुतिः । दिव्यो भौमस्तथा पैत्रो मानुषो ब्राह्म एव च ॥ एते पञ्च महायज्ञा ब्रह्मणा निर्म्मिताः पुरा । ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखाः ॥ इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः । एवं कृत्वा नरो भुक्त्वास्माद्धरित्रि ! विशुध्यति ॥ अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः । मन्तव्या दातृभोक्तॄणां महामांसं तु तत् स्मृतम् ॥” इति वाराहे आदिकृतवृत्तान्ताध्यायः ॥ तेन पितृतृप्तिर्यथा । मनुः । “तिलैर्वीहियवैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥” व्रीहिः शरत्पक्वधान्यम् । याज्ञवल्क्यः । “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” हरिष्यान्नेन शालिव्रीह्यन्नेन । इति । अमा- वास्यास्त्रिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयो- दशी व्रीहियवपाकौ च । “एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा- पतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥” इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहि- यवोभयप्राप्तिविषयकत्वेन विधायकं ग्रैष्मादि- धान्यव्युदासाय । शालिधान्यस्य तु प्राप्तिः । “शरद्वसन्तयोः केचित् नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥” इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येऽष्टौ- शालिविधानात् यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात् । इति च श्राद्धतत्त्वम् ॥ * ॥
नवान्न- श्राद्धकालो यथा । विष्णुः । अमावस्यास्तिस्रो- ऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्टपद्यूर्द्ध्वं कृष्ण- त्रयोदशी व्रीहियवपाकौ च । “एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥ व्रीहिपाके च कर्त्तव्यं यवपाके च पार्थिव । न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥” इति मलमासतत्त्वम् ॥ तेन यागकरणं यथा, — व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते ॥ तत्र “व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रामाण्यकल्पनम् ।” इत्येकादशी- तत्त्वम् ॥ * ॥
व्रीह्यप्राप्तौ शालिधान्येन कर्म्म- करणं यथा, —
“यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गोधूमा व्रीहीणामिव शालयः ॥” इति तिथ्यादितत्त्वम् ॥