वाचस्पत्यम्
व्रीहिमय || पु० व्रीहेविकारः पुरोडाशः मयट् । व्रीहिविकारे पुरोडाशे । अन्यत्र बिल्वा० अण् ।
शब्दकल्पद्रुमः
व्रीहिमयः || पुं, (व्रीहेः पुरोडाशः । व्रीहि + “व्रीहेः पुरोडाशे ।” ४ । ३ । १४८ । इति मयट् ।)
व्रीहिनिर्म्मितपुरोडाशः । इति सिद्धान्तकौमुदी ॥ (व्रीह्यात्मके, त्रि । यथा, महाभरते । १३ । ११५ । ५६ । “श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः । येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥”)