शब्दकल्पद्रुमः
व्रीहिराजकः || पुं, (व्रीहीनां राजा । टच् समासे । ततः कन् ।) कङ्गुधान्यम् । चीनकधान्यम् । इति मेदिनी ॥