संस्कृत-शब्दकोशः

व्रीह्यगार व्रुड

व्रीह्यादि

वाचस्पत्यम्

व्रीह्यादि ||‍ पु० विकाराद्यर्थे इनिटन्प्रत्ययनिमित्ते पा० ग० सू० उक्ते शब्दगणे स च “व्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्ना संज्ञा वडवा कुमारो नौ वीणा बलाका यवखद नौकुमारी (शीर्षान्नञ्)” “नौकुमार्य्योरिकार्थो गणे द्विधा पाठः” सि० कौ० । “अत इनिठनौ” व्रीह्यादिभ्यश्च” पा० व्रीहो व्रोहिकः । “न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते किं तर्हि शिलामालासंज्ञादिभ्य इनिः यवखदादिभ्यः ठन् । अन्येभ्य उभयम्” सि० कौ० ।



Correction: