शब्दकल्पद्रुमः
व्रैहः || त्रि (व्रीहेरवयवो विकारो वा । व्रीहि + “बिल्वादिभ्योऽण् ।” ४ । ३ । १३६ । इत्यण् ।) व्रीहिनिर्म्मितः । इति सिद्धान्तकौमुदी ॥