वाचस्पत्यम्
शक || क्षमायां सक० दि० उभ० सेट् । शक्यति ते अशाकीत्- अशकीत् अशकिष्ट “शक्योऽस्य मन्यु र्भवता विनेतुम्” रघुः ।
वाचस्पत्यम्
शक || त्रामे अक० संशये सक० भ्वा० आ० सेट् इदित् । शङ्कते अशङ्किष्ट ।
वाचस्पत्यम्
शक || पु० शक—अच् । १ जातिभेदे स च ब्रात्यक्षत्रियः १९०७ पृ० दृश्यम । २ देशभेदे स्वराज्यावधिवत्सराङ्कप्रवर्त्तके २ नृप- भेदे ४ तदीये वत्सरे च । कलियुगे शककर्त्तृषु षट्सु युधिष्ठिरः विक्रमादित्यः शालिवाहनश्चेति त्रयोगता विजयाभिनन्दनादयस्तयो भविष्यन्ति । तथा हि कलौ षट् शककर्त्तारः तल्लक्षणादि ज्योतिर्वि० १० अ० उक्त यथा “कलौ भविष्यन्त्यथ भारतावनौ महीभुजो बाहुमृतोऽप्य- नेकशः । शकास्तथैषामभिषेचनादिकं हितं सदोदी- रितकालसाधितम् । धराधिभूर्भिल्लशकादिजातिजस्त- दासनस्थोऽभिजनैर्नमस्कृतः । स्ततौ स राजाधिजनैः प्रतिष्ठितो न मन्त्रभेदाद्यभिषेचनोचितः । निहन्ति यो भूतलमण्डले शकान् सपञ्चकोट्यब्जदलप्रमान् कलौ । स राजपुत्रः शककारको भवेत् नृपाधिराज्ये ह्युतशाक- कर्त्तृ हा” । (तत्र शककारकस्य विक्रमादित्यस्य हननात् शालिवाहवस्य शककर्त्तृत्वम्) “यधिष्ठिरो विक्रमशालि- वाहनौ नराधिनाथौ विजयाभिनन्दनः । इमेऽनु ना- गार्जुनमेदिनीबिभुर्वलिः क्रमात् षट् शककारकाः कलौ” । तत्प्रवृत्तिकालांस्तत्राह “युधिष्ठिरात् वेदयुगाम्बरा- ग्नयः (३०४४) कलम्बविश्वे (१३५) ऽभ्रखखाष्टभूमयः १८००० । ततोऽयुतं १०००० लक्षचतुष्टयं क्रमात् धरा- दृगष्टाविति (८२१) शाकवत्सराः । युघिष्ठिरोऽभूद्भुवि हस्तिनापुरे तथोज्जयिन्थां पुरि विक्रसाह्वयः । शाले- यभूमीभृति शालिवाहनःसुचित्रकूटे विजयाभिनन्दनः । नागार्जुनो रोहितके क्षितौ बलिर्भविष्यतीन्द्रो भृगु- कच्छपत्तने । कृतप्रवृत्तिस्तदनन्तरं भवेत्तदा भविष्यन्त्यबनी- भृतोऽर्कतः” । अत्र युधिष्ठिरात् प्राक् कलौ शककर्त्त्र- न्तराभावात् कलियुगारम्भकालादेव तस्य शककाल उक्तः वराहसंहितायां १३ अ० तु तद्राज्यावधित एव तच्छककाल इत्यभिप्रायेण “आसन् मधासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ । षड्द्विकपञ्चद्वियुतः (२५२६) शककालस्तस्य राज्ञश्च” तेन कलेः (५१८) वर्षेषु गतेषु युधिष्ठिरस्य राज्यप्रवृत्तिः । षट्कर्तृवत्सरसमष्टिश्च युधि० ३०४४ । इति न कलिमानसंख्याविरोधः विक्र० १३५ अतएव ज्योतिर्विदाभरणशेषे ग्रन्थ- शालि० १८००० कृतैव “वर्षैः सिन्धुरदर्शनाम्बरगणै- विजया० १०००० यांते कलौ सम्भितैः” इति कलि- नागा० ४००००० युगस्यैव ३०६८ वर्षंषु गतेषु ग्रन्थ- बलि० ८२१ करणमुक्तम् । ३३२०००
वाचस्पत्यम्
शक || सामर्थ्ये स्वा० प० अक० इरित् वेट् । शक्नोति अश- कत्—अशाक्षीत् । पुषादिरित्येके तेन अशकदित्येव ।
शब्दकल्पद्रुमः
शक || इ ङ त्रासशङ्कयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-त्रासे अक०-शङ्कायां सक०- सेट् ।)
त्रासो भयम् । शङ्का संशयारोपः । इ, शङ्क्यते व्याघ्राज्जनेन । ङ, शङ्कते पुरुषत्वं स्थाणौ । स्थाणुर्व्वा पुरुषो वा इति संशय- मारोपयतीत्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शक || न इर् ऊ शक्ती । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सक०-च-वेट् ।)
न, शक्नो- त्यशक्यमप्याजौ विजेतुं य इति हलायुधः । इर, अशकत् अशकीत् अशाक्षीत् । ऌदित्त्वे- नास्मान्नित्यं ङ इत्यन्ये । ऊ, शकिष्यति शक्ष्यति । पृथकपाठादाद्यो न स्वादिः । द्वावे- वानिमाबित्यन्ये । षष्ठस्वरानुबन्धः केषाञ्चि- दनरोधात् । द्वावेव सकर्म्मकौ । तथा च । शक्योऽस्य मन्युर्भवता विनेतुमिति रघुः । रजः- परिणामभेदो न शक्यते प्रत्याख्यातुमिति तत्त्व- कौमुद्यां वाचस्पतिमिश्रः । शक्या मखेनापि मुदोऽमराणामिति नैषधम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शकः || पुं, (शक + अच् ।)
जातिभेदः । नृपभेदः । इति मेदिनी ॥ स च नृपः शकादित्यः इति शालिवाहन इति च नाम्ना ख्यातः । तस्य मरणदिनावधि वत्सरगणनाङ्कः शकाब्देति नाम्ना पञ्जिकायां लिख्यते । स च म्लेच्छ- जातिविशेषः । सत्ययुगे सगरराजेनास्य मस्त- कार्द्धं मुण्डयित्वा वेदबाह्यत्वमकारि । यथा, —
“ततः शकान् सयवनान् काम्बोजान् पारदां- स्तथा । पह्नवांश्चापि निःशेषान् कर्त्तुं व्यवसितो नृपः ॥ ते हन्यमाना बीरेण सगरेण महौजसा । वशिष्ठं शरणं जग्मुः सूर्य्यवंशपुरोहितम् ॥ वशिष्ठः शरणापन्नान समये स्थाप्य तानृषिः । सगरं वारयामास तेभ्यो दत्त्वाभयं तदा ॥ सगरस्तां प्रतिज्ञान्तु निशम्य सुमहाबलः । धर्म्मं जघान तेषाञ्च वेशानन्यांश्चकार ह ॥ अर्द्धं शिरः शकानान्तु मुण्डयामास भूपतिः । जवनानां शिरः सर्व्वं काम्बोजानामपि द्विज ॥ पारदान्मुक्तकेशांस्तु पह्रवान् श्मश्रुधारिणः । निःस्वाध्यायवषट्कारान् सर्व्वानेव चकार ह ॥” इति पाद्मे स्वर्गखण्डे सगरोपाख्यानम् १५ अः ॥ देशभेदः । इति विश्वः ॥ (यथा, मात्स्ये । १२० । ४५ । “तुषारान् वर्व्वरान् कारान् पह्रवान् पारदान् शकान् । एतान् जनपदान् मङ्क्षु प्लावयित्वोदधिं गता ॥”)
शब्दकल्पद्रुमः
शक || य ञ शक्तौ । इति कविकल्पद्रुमः ॥ (दिवा० उभ०-सक०-सेट् ।)
शक्तिर्दिवादिपक्षे क्षमा खादिपक्षे सामर्थ्यम् । यञ, शक्यति शक्यते दुःखं दीनः । इति दुर्गादासः ।