वाचस्पत्यम्
शकट || पु० न० शक—अटन् । १ यानभेदे (गाडि) अमरंः । २ असुराधिष्ठिते नन्दानयस्थे शकटविशेषे शकटभञ्जनः कृष्णः । १ द्विसहस्रपलपरिमाणे हेमच० । स्वल्पार्थे ङीप् । क्षुद्रशकटे स्वार्थे क । शकटिका तत्रैव स्त्री ।
शब्दकल्पद्रुमः
शकटः || पुं, क्ली, (शक्नोति भारं वोढुमिति । शक् + “शकादिभ्योऽटन् ।” उणा ०४ । ८१ । इति अटन् ।)
यानविशेषः । गाडी इति भाषा ॥ तत्पर्य्यायः । अनः २ । इत्यमरः ॥ अक्षः ३ । इति शब्दरत्नावलौ ॥ विष्णुवध्यासुरविशेषः । द्विसहस्रपलपरिमाणम् । तत्पर्य्यायः । भारः २ आचितः ३ शाकटीनः ४ शलाटः ५ । इति हेमचन्द्रः ॥ उक्तञ्च । “शकटः शाकिनी गावो यानमस्कन्दनं वनम् । अनूपः पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥” इति भरतः ॥ तिनिसवृक्षः । इति राजनिर्घण्टः ॥ (व्यूह- विशेषः । यथा, मनुः । ७ । १८७ । “दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ॥” शकटाकृतित्वात् रोहिणीनक्षत्रम् । यथा, बृहत्संहितायाम् । २४ । ३० । “रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः । कापि यान्ति शिशुयाचिताशनाः सूर्य्यतप्तपिठराम्बुपायिनः ॥”)