शकार
शकुन
शकारि
वाचस्पत्यम्
शकारि || पु० शकानां म्लेच्छजातिभेदानामरिः । विक्रमादित्ये
शब्दकल्पद्रुमः
शकारिः || पुं, (शकस्य म्लेच्छजातिविशेषस्यारिः शत्रुः ।)
विक्रमादित्यराजः । स तु उज्जयनी- देशाधिपतिः । यथा, —
“साहसाङ्कःशकारिः स्याद्विक्रमादित्य इत्यपि ॥” इति जटाधरः ॥