संस्कृत-शब्दकोशः

शकारि शकुनज्ञ

शकुन

वाचस्पत्यम्

शकुन ||‍ न० शक—उनन् । १ शुभाशुभसूचकनिमित्ते—बाहुस्य- न्दनकाकादिदर्शनादौ । दुःशकुनशब्दे ३६१ पृ० दृश्यम् २ पक्षिमात्रे ३ पक्षिभेदे गृध्रे च पुं स्त्री० मेदि० ।


शब्दकल्पद्रुमः

शकुनं || क्ली (शक्नोति शुभाशुभं विज्ञातुमनेनेति । शक् + “शकेरुनोन्तोन्त्युनयः ।” उणा० ३ । ४९ । इति उनः ।)
शुभशंसिनिमित्तम् । इति मेदिनी ॥ सगुन् इतिहिन्दीभाषा । फललक्षणम् । इत्यजयपालः ॥ * ॥
अथ शुभशकुनानि । “कीर्त्तनात् श्रवणतो विलोकनात् स्पर्शनात् समधिकं समोत्तरम् । मङ्गलाय दधिचन्दनादिकं स्यात् प्रवासभवनप्रवेशयोः ॥ दध्याज्यदूर्व्वाक्षतपूर्णकुम्भाः मिद्धान्नसिद्धार्थकचन्दनानि । आदर्शशङ्खामिषमौनमृत्सा- गोरोचनागोमयगोमधूलिः । गीर्व्वाणवीणाफलभद्रपीठ- पुष्पाञ्जनालङ्करणायुधानि । ताम्वूलयानासनवर्द्धमान- ध्वजातपत्रव्यजनाम्बराणि ॥ अम्भोजभृङ्गारसमृद्धवह्नि- गजाजवाह्यः कुशचामराणि । रत्नानि चामीकररूप्यताम्र- बद्धैडकाश्चोषधयः सुराश्च ॥ वनस्पतेर्नूतनशाकमेवं माङ्गल्यपञ्चाशदिदं प्रदिष्टम् । शुभेषु कार्य्येष्वशुभेषु चैव कार्य्ये गतानां शुभदाः सदैव ॥ एतानि दृष्ट्वा शुभदर्शनानि कुर्व्वन्ति दृष्टः पथि दक्षिणेन । सकृद्विलोकादशुभावहानि त्यक्तानि वामेन शुभा भवन्ति ॥ गान्धारषड्जावृषभस्तथान्ये स्वरेषु गम्भीरमनोरमा ये । वादित्रवेदध्वनिगीतनृत्य- मित्यादिशस्तं किल यत्र रीद्रम् ॥ आदाय रिक्तं कलसं जलार्थी यदि व्रजेत् कोऽपि सहाध्वगेन । पूर्णं समादाय निवर्त्ततेऽसौ यथा कृतार्थः पथिकस्तथैव ॥ * ॥
अङ्गारभस्मे न्धनरज्जुपङ्क- पिण्याककार्पासतुषास्थिविष्ठाः । कृष्णायसावस्करकृष्णधान्य- पाषाणकेशा भुजगौषधानि ॥ तैलं गुडं चर्म्म वसा विभिन्नं रिक्तञ्च भाण्डं लवणं तृणञ्च । तक्रार्गला शृङ्खलवृष्टिवाताः कार्य्ये क्वचित् त्रिंशदिमे न शस्ताः ॥ * ॥
स्वपादयानस्खलनं नृपाणां भङ्गः क्वचिद्यानपलायनञ्च । द्वाराभिघाताध्वगशस्त्रपाताः प्रस्थानविघ्नं कथयन्तु यातुः ॥ मार्ज्जारयुद्धारवदर्शनानि कलिः कुटुम्वस्य परस्परञ्च । चित्तस्य कालुष्यकरञ्च सर्व्वं गन्तुः प्रयाणप्रतिषेधनाय ॥ दृष्टे शवे रोदनशब्दहीने महार्थसिद्धिः कथितोद्यमेषु ॥ गृहप्रवेशेषु शवः शवत्वं रुजं सदीर्घामथवा ददाति ॥ गण्डूषमावर्जयतां नराणा- मन्तर्गलं चेत् प्रविशत्यकस्मात् । भवेत् तदाभोप्सितसौख्यलाभो यः कौतुकी तेन निरूप्यमेतत् ॥ उञ्झितं झटिति दन्तधावनं संमुखं पतति यत्र वासरे । भोजनं भवति तत्र वीक्षितं व्यासभाषितमिदं हि नानृतम् ॥” इति वसन्तराजशाकुने विचारिताः शुभावहाः ॥ अथ नराङ्कितविचारः । “अथाभिधास्ये द्बिपदेषु तावत् प्रधानभावात् शकुनं नराणाम् । नैमित्तिकं यत् प्रतिभाव्य सर्व्वं फलं शुभाशोभनयोर्ब्रवीति ॥ नरोऽभिरूपः सितवस्त्रमाल्यो वाचं प्रशस्तां मधुराञ्च जल्पन् । एवंविधा योषिदपि प्रयाणे प्रवेशकाले च करोति सिद्धिम् ॥ * ॥
वमदुविकेशो हतमानगर्व्वः क्षिण्णाङ्गनग्नान्त्यजतैलदिग्धाः । रजस्वला गर्भवती रुदन्ती मलान्वितोन्मत्तजराधवाश्च ॥ दीनो द्बिषत्कृष्णविमुक्तकेशाः क्रमेलकस्थाः खरसैरिभस्थाः । सन्न्यासिसांक्रन्दनपुंसकाद्या दुःखावहाः सर्व्वसमीहितेषु ॥ * ॥
पृथ्वीपतिर्ब्राह्मणहर्षयुक्तो वेश्या कुमारी सुहृदः सुकेशाः । नार्य्यो नराश्चाश्ववृषाधिरूढाः शुभाय दृष्टाः शकुनोद्यमेषु ॥ * ॥
कृष्णाम्बराः कृष्णविलेपनाढ्याः कृष्णां स्रजं भूर्द्ध्नि विधारयन्ती । दृष्टा सकोपा यदि कृष्णवर्णा नारी नरैस्तद्विपदो भवन्ति ॥ * ॥
श्वेताम्बरा श्वेतविलेपनाढ्या मालां सितां मूर्द्ध्नि विधारयन्ती । दृष्टा प्रकृष्टा यदि गौरवर्णा नारी नरैः स्यात्तदभीष्टसिद्धिः ॥ धृतातपत्रः सुविशुक्लवासाः पुष्पान्वितश्चन्दनचित्रिताङ्गः । निश्रावयुक्तः कृतभोजनो वा विप्रः पठन् यच्छति सर्व्वसिद्धिम् ॥ अभ्युपगच्छति यस्य हि याने स्त्रीपुरुषोऽप्यथवा फलहस्तः । सर्व्वसमीहितसिद्धिरवश्यं तस्य नरस्य भवत्यचिरेण ॥” इति वसन्तराजशाकुने नराङ्कितेक्षित- संज्ञम् ॥ * ॥
“गच्छेति पृष्ठे पुरतस्तथैव वागीदृशी केनचिदुच्यमाना । सर्व्वाशिषश्चातिशयेन ताभ्य- श्चित्तस्य तुष्टिर्विजयाय पुंसाम् ॥ सिद्ध्यै विरावा जहि छिन्दि भिन्दि चेत्यादयः शत्रुवधोद्यतानाम् । क्व यासि मागच्छत चैवमाद्याः प्रयोजनारम्भनिवारणार्थाः ॥ स्थैर्य्ये स्थिरार्थाद्गमनं तदर्था- द्वाक्यान्निवृत्तिर्विनिवर्चितार्थात् । लाभं जयं भङ्गममङ्गलं वा बध्येत तत्तत्प्रतिपादनार्थात् ॥ उग्रं भवेद्रोदनमग्रभागे भयं भवेद्बह्निविभागभूते नैरृत्यकोणे रणमार्गरोधो वायव्यकोणे रुदितं समृद्ध्यै ॥ मृत्युः सुतानां रुदितेन पृष्ठे लाभो भवेत्तत्र निवर्त्तनेन । मृत्युस्तदाग्रे रुदितेन गन्तुः सिद्धिं विधत्ते रुदितं रिपूणाम् ॥” इति वसन्तराजशाकुने नराङ्किते उपश्रुति- प्रकरणम् ॥ * ॥
वकचक्रवाकटङ्कटिट्टिभकार- ण्डवभासभारद्वाजमयूरकपिञ्जल-लावकगृध्रो- लूककपोतगोवत्सकुक्कुटकलविङ्कभारतीचास- खञ्जनकाकपिङ्गलारूपाणि शकुनानि घोटक- वृषमहिषखरगोमहिष्यजाजमेषैडकोष्ट्रछुच्छुन्द- रीमूषिकमार्जारवानरमृगवराहकृकलासनकु- लवृश्चिकपिपीलिकापल्ली-कुक्कुरादिरूपशकुना- निच वसन्तराजशाकुने द्रष्टव्यानि । हस्ति- शशकशृगालषट्पदशरभसर्परूपाणि शकुनानि तत्तच्छब्दे द्रष्टव्यानि ॥


शब्दकल्पद्रुमः

शकुनः || पुं, (शक + उनः ।)
पक्षिमात्रम् । (यथा, महाभारते । १ । ७२ । १० । “तं वने विजने गर्भं सिंहव्याघ्रसमाकुलं । दृष्ट्वा शयानं शकुनाः समन्तात् पर्य्यवारयन् ॥”)
पक्षिविशेषः । गृध्र इति ख्यातः । इति मेदिनी ॥ कश्यपपत्नीताम्रायाः श्येनगृध्रादयः पुत्त्राः । इति श्रीभागवतम् ॥ गृध्रस्याशुभफलं यथा, —
“वामेऽपसव्ये पुरतश्च पृष्ठे युद्धं विभेदं मरणं स्त्रियश्च । गृध्रः स्थितः सन् कुरुते क्रमेण शब्दोऽपसव्योऽस्य विपत्तिहेतुः ॥” इति वसन्तराजशाकुनम् ॥ विप्रभेदः । इत्युणादिकोषः । तद्विवरणं भाग- वते उक्तम् । गीतविशेषः । तत्तु उत्सवादिषु मङ्गलार्थगेयम् । इत्यजयपालः ॥ शुभशंसी । इति शब्दरत्नावली ॥



Correction: