शकुनज्ञ
शकुनि
शकुनज्ञा
शब्दकल्पद्रुमः
शकुनज्ञा || स्त्री (शकुनं जनातीति । ज्ञा + कः । स्त्रियामाप् ।)
ज्यैष्ठी । इति त्रिकाण्डशेषः ॥ शकुनज्ञातरि, त्रि ॥ (यथा, कथासरित्- सागरे । ३१ । ५३ । “प्राहिणोत्प्राङ्निषिद्धापि स्वसख्या शकुनज्ञया । स्वतन्त्रोऽभिनवारूढो युवतीनां मनोभवः ॥”)