शब्दकल्पद्रुमः
शकुन्तलात्मजः || पुं, (शकुन्तलाया आत्मजः पुत्त्रः ।) भरतराजः । यथा, — “दौष्मन्तिर्भरतः सर्व्वदमः शकुन्तलात्मजः ॥” इति हेमचन्द्रः ॥