शब्दकल्पद्रुमः
शक्करी || स्त्री छन्दोभेदः । नदीभेदः । मेखला । इति मेदिनी ॥ सा च समवृत्तषड्विंशति- च्छन्दोऽन्तर्गतचतुर्द्दशच्छन्दः । यथा, —
“उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्व्विका । गायत्त्र्युष्णिगनुष्णुप् च बृहती पङ्क्तिरेव च ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शक्करी सातिपूर्ब्बा स्यादष्ट्यत्यष्टी तथा मता ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्चापि तथा चैवातिसत्कृतिः ॥ इत्याख्याः समवृत्तानां छन्दसां क्रमशः कृताः ॥” तत्र चतुर्द्दशाक्षरपादसप्तच्छन्दांसि सन्ति । तेषां नामानि गणाश्च यथा । मो गो गो नौ मः शरनवभिरसंवाधा । १ । ज्ञेयं वसन्ततिलकं तभजा जगौ गः । २ । ननरसलयुगैः स्वरैरपराजिता । ३ । ननभनलगितिप्रहरणकलिका । ४ । मस्तो नो मो गौ यदि गदिता वासन्तीयम् । ५ । द्विः सप्त छिदि लोलाम्सौ म्भौ गौ चरणे चेत् । ६ । स्वरभिदि यदि नौ तौ च नान्दीमुखीयम् । ७ । इति छन्दोमञ्जरी ॥ एतेषामुदाहरणानि बाहुल्यभिया नोक्तानि ॥