वाचस्पत्यम्
शक्त || त्रि० शक—क्त । समर्थे हेमच० ।
शब्दकल्पद्रुमः
शक्तः || त्रि (शक + क्तः ।)
शक्तिविशिष्टः । समर्थः । तत्पर्य्यायः । सहः २ क्षमः ३ प्रभुः ४ उष्णुः ५ । इति हेमचन्द्रः ॥ (यथा, मनुः । ९ । २०७ । “भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा । न निर्भाज्यः स्वकादंशात् किञ्चिद्दत्वोपजीव- नम् ॥”)
प्रियंवदः । इति शक्नशब्दटीकायां स्वामी ॥