संस्कृत-शब्दकोशः

शक्त्यर्द्ध शक्थ्रि

शक्त्रि

वाचस्पत्यम्

शक्त्रि(क्थ्रि) ||‍ पु० वशिष्ठमुनेः पुत्रे पराशरस्य पितरि मुनिभेदे


शब्दकल्पद्रुमः

शक्त्रिः || पुं, वशिष्ठमुनेर्ज्येष्ठपुत्त्रः । इति पुराणम् ॥ (यथा, महाभारते । १ । १७७ । ६ । “अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् । शक्त्रिं नाम महाभागं वशिष्ठकुलवर्द्धनम् । ज्येष्ठं पुत्त्रं पुत्त्रशतात् वशिष्ठस्य महात्मनः ॥” अयं हि इक्ष्वाकुवंशीयं कल्माषपादनृपतिं अशपत् । स च नृपती राक्षसो भूत्वा एन- मभक्षयत् । एतद्वृत्तान्तस्तु महाभारते १ । १७७ अध्याये द्रष्टव्यः ॥)



Correction: