संस्कृत-शब्दकोशः

शक्य शक्र

शक्यतावच्छेदक

वाचस्पत्यम्

शक्यतावच्छेदक ||‍ त्रि० ६ त० । शक्यपदार्थस्यासाधारणधर्भे येन धर्मेण अर्थस्य शब्दसङ्केतविषयता तस्मिन् धर्मे । यथा घटशब्दः घटत्ववन्तं पदार्थं वोधयति अतस्तदसा- धारणधर्मो घटत्वं घटशब्दस्य शक्यतावच्छेदकम् ।


शब्दकल्पद्रुमः

शक्यतावच्छेदकं || त्रि (शक्यताया अवच्छेदकम् ।)
शक्यांशे भासमानधर्म्मः । यथा । “एवञ्च तादृशधर्म्मस्य शक्यतावच्छेदकत्वं दुर्व्वारमेव ।” इति शक्तिवादः ॥



Correction: