संस्कृत-शब्दकोशः

शक्यतावच्छेदक शक्रक्रीडाचल

शक्र

वाचस्पत्यम्

शक्र ||‍ पु० शक—रक् । १ इन्द्रे अमरः । २ कुटजवृक्षं ३ अर्जु नवृक्षे मेदि० । ४ ज्येष्ठानक्षत्रे ५ पेचके च । इन्द्रस्य चतुर्दशविधत्वम् भन्वन्तरभेदेन इन्द्रशब्दे दर्शितमतः तत्संख्यासाम्यात् ६ चतुर्दशसंख्यायाम् ।


शब्दकल्पद्रुमः

शक्रः || पुं, (शक्नोति दैत्यान् नाशयितुम् । शक + “स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् ।)
इन्द्रः । इत्यमरः । (यथा, रघुः । ३ । ३९ । “धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥”)
कुटजवृक्षः । अर्ज्जुनवृक्षः । इति मेदिनी ॥ ज्येष्ठानक्षत्त्रम् । यथा, —
“शक्रो निरृतिस्तोयं विश्वविरिञ्ची हरिर्वसु- र्व्वरुणः । अजपादोऽहिव्रध्नः पूषा चेतीश्वरा भानाम् ॥” इति ज्योतिस्तत्त्वम् ॥ चतुद्दशन्द्रा यथा, —
“विश्वभुक् च विपश्चिद्यः सुवित्तिः शिविरेव च । विभुर्मनोजवश्चैव तथौजस्वी वडिस्तथा ॥ अद्भुतश्च तथा शान्तिस्तथा देवचरो वृषः । ऋतधामा दिवःस्वामी शुचिः शक्राश्चतुर्द्दश ॥” * ब्राह्मदिनमासाब्देषु इन्द्राणां नाशसंख्या यथा । “ब्राह्मे दिने वै नश्यन्ति चतुर्द्दश पुरन्दराः । शतानि मासि चत्वारि विंशत्या सहितानि च । अब्दे पञ्चसहस्राणि चत्वारिंशच्छतानि च ॥” इत्याद्ये वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
इन्द्रत्वप्राप्तिकारणं यथा, — इन्द्र उवाच । “रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा । तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥ इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः । न तेन धर्म्मो विहितो न तेन क्रतवः कृताः । मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥ इत्येवं वदतस्तस्य श्रुत्वा वाक्यं रमापतिः । उन्मीलितस्मिताक्षोऽसावुवाच मधुरं वचः ॥ श्रीभगवानुवाच । देवादयो मनुष्यान्ता मम सेवापरायणाः । मद्याजनरता लोका मद्भक्तिस्तुतिपाठकाः ॥ मन्मूर्त्तिषु कृतध्याना मत्कथाश्रवणा इह । मत्पादोदकनैवेद्यभोजिनोऽन्वहमेव ये ॥ मन्नामकीर्त्तनपरा मम स्मृतिपरायणाः । मन्मन्त्रजापका नित्यमनन्याश्रयसम्पदः ॥ किं विधित्वं किमिन्द्रत्वं देवत्वमपरं किमु । तेषामलभ्यं यत्किञ्चित् दुर्लभं नास्ति संसृतौ ॥ किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः । सेव्यमानैः क्षितितले स मम प्रीतिमान् सदा ॥ इन्द्र उवाच । भगवन् कर्म्मणा केन स त्वत्प्रीतिपरो भवेत् । तद्वदस्व महाबाहो प्रपन्नभयभञ्जन ॥ श्रीभगवानुवाच । अनेकधा मद्भजनं मम प्रीतिकरं परम् । यद्भक्त्या तत् पदं लेभे तत् शृणुष्व पुरन्दर ॥ जपत्यष्टादशाध्यायगीतानां श्लोकपञ्चकम् । तया भक्त्या तु संप्राप्तं तव साम्राज्यमुत्त- मम् ॥” इति पाद्मोत्तरखण्डे ९६ अध्यायः ॥ (समर्थे, त्रि । यथा, ऋग्वेदे । ४ । १६ । ६ । “विश्वानि शक्रो नर्य्याणि विद्वा- नपो रिरेच सखिभिर्निकामैः ॥” “विद्बान् जानन् शक्रः समर्थ इन्द्रः ।” इति तद्भाष्ये सायणः ॥)



Correction: