संस्कृत-शब्दकोशः

शक्रजात शक्रद्रुम

शक्रजित्

वाचस्पत्यम्

शक्रजित् ||‍ पु० शक्रं जितवान् जि—क्विप् तुक् च । १ रावणा- त्मजे मेघनादे राक्षसे । २ इन्द्रजेतरि त्रि० ।


शब्दकल्पद्रुमः

शक्रजित् || पुं, (शक्रं जितवानिति । जि + क्विप् ।)
रावणपुत्त्रः । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । १४ । ८३ । “अपि प्रभुः सानुशयोऽधुना स्यात् किमुत्सुकः शक्रजितोऽपि हन्ता ॥”)
इन्द्रजेतरि, त्रि ॥



Correction: