संस्कृत-शब्दकोशः

शक्रधनुस् शक्रनन्दन

शक्रध्वज

वाचस्पत्यम्

शक्रध्वज ||‍ पु० ६ त० । भाद्रशुक्लद्वादश्यां पूज्ये इन्द्रदैवते ध्वजाकारे पदार्थे । इन्द्रध्वजशब्दे ९४६ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

शक्रध्वजः || (शक्रस्य ध्वजः ।)
इन्द्रध्वजः । (यथा, आर्य्यासप्तसत्याम् । २६९ । “ते श्रेष्ठिनः क्व सम्प्रति शक्रध्वज ! यैः कृत- स्तवोच्छ्रायः । ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥”)
तद्विवरणं यथा, — नृपवाहन उवाच । “भगवन् श्रोतुमिच्छामि तस्य उत्थापनं यथा । क्रियते दिन ऋक्षे च द्रव्यमन्त्रविधिं वद ॥ अगस्त्य उवाच । ब्रह्मणा कथितं शक्र बृहस्पतिसमीपतः । यथा तथा प्रवक्ष्यामि विधिं केतोः समुच्छ्रये ॥ बृहस्पतिरुवाच । शुभाहे ऋक्षे करणे मुहूर्त्ते शुभमङ्गले । दैवज्ञः सूत्रधारश्च वनं गच्छेत् सहायवान् ॥ देवीप्रतिष्ठाविधिना यात्रायां या प्रचोदिता । गत्वा बृक्षं शुभं पुष्पं धवार्ज्जुनप्रियङ्करम् ॥ उडुम्बराजकर्णञ्च पञ्चैते शोभना हरेः । ध्वजार्थे वर्जयेद्बत्स देव उद्यानजान् द्रुमान् ॥ कन्या मध्ये तु या यष्टीः करमानेन कल्पयेत् । एकादशकरा वत्स नव पञ्च करापरा ॥ अरालतां क्रिमिचितां तथा पक्षिनिकेतनाम् । वल्मीकपितृवनजां सुशुष्ककोटरान्तराम् ॥ कुब्जाञ्च घटसिक्ताञ्च तथा स्त्रीनामगर्हिताम् । विद्युद्वज्रहताञ्चैव दग्धाञ्च परिवर्जयेत् ॥ अलाभे चन्दनं आम्रं शालशाकमयं तथा । कर्त्तव्यं शक्रचिह्रार्थे न चान्यं वृक्षजं क्वचित् ॥ शुभभूमिभवं ग्राह्यं शुभतोयं शुभावहम् । ततः संपूजयेद्वृक्षं प्राङ्मुखोदङ्मुखोऽपि वा ॥ नमो वृक्षपते वृक्ष त्वामर्च्चयति पार्थिवः । ध्वजार्थं तत्त्वतो नाथ अन्यथा उपगम्यताम् ॥ रात्रौ देयो वलिस्तत्र युगवृक्षे तथव च । वासवानां महावृक्षं कृत्वा चान्यत्र गम्यताम् ॥ ध्वजार्थे देवराजस्य न क्षान्तिस्तव अत्र च । पूजयित्वा ततो वृक्षं बलिं भूताय दापयेत् ॥ प्रभाते छेदयेद्वृक्षं शुभस्वप्नादिदर्शनैः । शुक्लाम्बरधरश्चैव समुद्रतरणं नदी ॥ वृक्षान्नम्रान् शुभान् क्षीरानारोहेत् देवता- लयम् । देवो द्बिजस्तथा साधुलिङ्गब्रह्म हरेरपि ॥ प्रतिमा पूजिता स्वप्ने क्षिप्रं सिद्धिफलप्रदा । मत्स्यमांसदधिलाभं रुधिरं मृतरोदनम् ॥ अगम्यागमनं दृष्ट्वा आशु सिद्धिफलप्रदम् । द्रुमांस्तिलं घनं धान्यं शत्रुनाशं यथा शुभम् ॥ फलं पुष्पं सिता दूर्व्वा स्वप्ने लब्धा जयावहाः । शङ्खगावस्तथा दन्तिलाभा राज्यप्रदायकाः ॥ गौः सवत्सा नवसुता दृष्टा पुत्त्रफलप्रदा । पङ्कस्योद्धरणं कूपे व्याधिमोक्षकरं चिरात् ॥ एवं स्वप्नान् शुभान् दृष्ट्वा तथा छिन्देत पाद- पम् । उदङ्मुखः प्राङ्मुखो पा मधुवज्राक्तपर्शुना ॥ पूर्व्वोत्तरे च पतनं शस्तोऽशब्दोऽव्रणः शुभः । अलग्नपादपे चान्ये अन्यथा तु परित्यजेत् ॥ अष्टाङ्गुलं त्यजेत् मूले अग्रे तन्तु जले क्षिपेत् । तथा तमानयेद्वत्स शकटेन वृषैरपि ॥ युवानैर्बलसम्पन्नैर्नेयं तत्पुरतः परम् । नीयमाना यदा यष्टी समा वा चतुरस्रका ॥ वृत्ता वा भङ्गमाधत्ते राज्ञः पुत्त्रं पुरोहितम् । आरभङ्गे बलं भिन्द्याद्राज्यनाशं क्षयं तथा ॥ अर्थस्य अक्षभङ्गेन शान्तिन्तत्र तु कारयेत् । इन्द्रर्जच्छत्रमन्त्रेण जातदेवसमापि वा ॥ तथा नीत्वा शुभे लग्ने पुरस्तादुपवेशयेत् । द्बारशोभां पथरथ्या गृहे हट्टे च कारयेत् ॥ यदा पटहनादाश्च वेश्याशङ्खद्बिजातयः । सङ्कुलैर्वेदशब्दैश्च ता नेया यत्र उच्छ्रयेत् ॥ तत्रस्थाञ्चित्रकर्म्मावनिर्म्मितैस्तान्तु वेष्टयेत् । वस्त्रैरण्डजरोमोत्थैः शुभैः शुक्लैर्यथाक्रम् ॥ नन्दोपनन्दसंज्ञाश्च कुमार्य्यः प्रथमांशगाः । देवो जयविजयाख्याः षोडशांशव्यवस्थिताः ॥ अधिके शत्रुजयित्री तथार्थजा दैवतैर्दण्डाः । ध्वजपरिमाणार्थं सपरिधिः प्रथमं पिटम् ॥ षोडशांशविहीनानि कुर्य्याच्छेषाणि बुद्धिमान् । रसनां विचित्रवर्णां प्रथमां दद्यात् स्वयम्भूः ॥ सुरक्तां चतुरस्राञ्च विश्वकर्म्मा द्बितीयतः । अष्टास्रान्तु स्वयं शक्रो नीलरक्तां प्रदापयेत् ॥ कृष्णं यमेन वृत्तञ्च वरुणेन सहस्रिकम् । मञ्जिष्ठाजलदाकारं वासुदेवो मसूरकम् ॥ नीलवर्णञ्च तं दद्यात् स्कन्दो बहुविचित्रितम् । वृत्तन्तु दहनो दत्यात् सुवर्णाभं तथाष्टमम् ॥ वैदूर्य्यसदृशमिन्द्रो ग्रैवेयं दापयेद् बुधः । चक्राङ्काकृतिन्तु सूर्य्यो विश्वेदेवाः पद्मनिभम् ॥ ऋषयो नियमं दद्युर्नीलं नीलोत्पलाभासम् । गुरुणा शुक्रेण ततो विशालं मूर्द्धतो न्यस्तम् ॥ गृहैर्विचित्राणि बहुमातृभिः स्वानि रूपाणि । यद्येकेनैव दत्तन्तु केतोस्तत्तस्य भूषणम् ॥ तदैव तं विजानीयाद्यन्त्रादिभिस्तमुच्छ्रयेत् । प्रथमं प्रविशमाना भूमिं यष्टिर्हन्ति राष्ट्रम् ॥ बालानां तालशब्देन देशविधातं समाचष्टे । नृपवधकरा विशीर्णा शुभावहा सर्व्वसान्द्रा च ॥ शम्भुमूर्य्ययमशक्रसोमधनदवारुणैः । बह्नीशऋषिमन्त्राश्च होतव्या दधि चाक्षताः ॥ शुक्रस्कन्दगुरुरुद्रअप्सरादि प्रपाठयेत् । हुत्वा तु विधिवद्बह्निज्वालां लक्षेत बुद्धिमान् ॥ सुतेजाः सुमनो दीप्तः संहतो रुचिरप्रभः । रक्ताशोकसमाकारो रथभेरीस्वनः शुभः ॥ शङ्खदुन्दुभिमेघानां नादाः शस्तास्तु पावके । ततः सकदलीक्षुदण्डान् पताकानि समुच्छ्रये ॥ अन्याश्च विविधाः शोभाः शक्रकेतुसमुच्छ्रये । प्रौष्ठपदे तु अष्टम्यां शुक्लायां शोभने ऋक्षे ॥ आश्विने वाथ शुक्लायां श्रवणेनाथ उच्छ्रयेत् । पौरजनलग्नवृन्दैः पटभेरीनिनादितम् ॥ वितानध्वजशोभाट्यं पताकाभिः समुज्ज्वलम् । विष्ण्वीशशक्रमन्त्रेण सिंहरक्षाकृतेन च ॥ दृढमातृकरन्ध्रस्थं शुभतोरणमाकुलम् । अविलम्बितमुत्थानमभग्नपिटकं समम् ॥ न हुतं वा समुत्थाप्य केतुं वासवजं विभो । उच्छ्रितं रक्षयेत्प्राज्ञः काकोलूककपोतयोः ॥ न समुत्थापनं दद्यादन्येषामपि पक्षिणाम् । यन्त्रोद्देशेन तं कुर्य्यात् मुखं केतोर्यथाविधि ॥ तथा सुसंस्थितं पूज्यं मुखयन्त्रसुयन्त्रितम् । रात्रौ जागरणं कुर्य्यादिन्द्रमन्त्रानुकीर्त्तनम् ॥ पुरोहितः सदैवज्ञः शुभशान्तिरतः सदा । छत्रपातो नृपं हन्यात् पताका महिषीवधम् ॥ पिटके युवराजस्य सचिवमनुकम्पते । राष्ट्रं तोरणपातेन ध्वजे अन्नक्षयो भवेत् ॥ पतिते शक्रदण्डे तु नृपमन्यं समादिशेत् । कृमिजालक उत्थाने शलभात्तस्कराद्भयम् । सुसमे संस्थिते शान्तिर्नृपस्य नगरस्य च ॥ याचोच्छ्रितन्तु तिष्ठन्ति तावत् पौराः सदा हृष्टाः । केतोर्निरता यजने भुञ्जीयाद्विप्रकन्याश्च ॥ पाते तु तथैव कुर्य्यादुत्थाने यादृशी पूजा । रात्रौ शुभकृत् पातनं नो दृष्टं काककपोतैः ॥ याति नृपं सहराष्ट्रं यश्चैव कारयेत् केतुम् । नगरे वा पुरे खेटे यद्येवं कुर्व्वते पौराः ॥ पुरे नगरस्य द्वारे वृषसिंहखगोत्थितम् । केतु समस्तघोराणां नाशनं जयदं महत् ॥ एवं पूर्ब्बं हरिः केतुं प्राप्तवान् वृषवाहनात् । तथा ब्रह्मसुतेनैव ब्रह्मणः शक्रमागतः ॥ तेन सोमस्य तद्वृत्तं ततो दक्षे समागतम् । तदाप्रभृति कुर्व्वन्ति नृपा अद्यापि उच्छ्रयम् ॥ एवं यः कारयेद्राजा केतुं विजयकारकम् । तस्य पृथ्वी बलोपेता सद्बीपा वशगा भवेत् ॥” इत्याद्ये देवीपुराणे इन्द्रध्वजलक्षणम् २१ अध्यायः ॥



Correction: