संस्कृत-शब्दकोशः

शक्रमातृ शक्रमूर्द्धन्

शक्रमातृका

शब्दकल्पद्रुमः

शक्रमातृका || स्त्री (शक्रस्य मातृकेव ।)
शक्र- ध्वजाङ्गयष्टिविशेषः । यथा, कालिकापुराणम् । “कुमार्य्यः पञ्च कर्त्तव्याः शक्रस्य नृपसत्तम । शालमय्यस्तु ताः सर्व्वास्त्वपराः शक्रमातृकाः ॥ केतोः पादप्रमाणेन कार्य्याः शक्रकुमारिकाः । मातृकार्द्धप्रमाणा तु यन्त्रं हस्तद्वयं तथा ॥ एवं कृत्वा कुमारीश्च मातृकां केतुमेव च । एकादश्यां सिते पक्षे यष्टीनामधिवासनम् ॥” इति तिथ्यादितत्त्वम् ॥



Correction: