शङ्करावास
शङ्का
शङ्करी
शब्दकल्पद्रुमः
शङ्करी || स्त्री मञ्जिष्ठा । इति शब्दचन्द्रिका ॥ शमी । इति राजनिर्घण्टः ॥ शङ्करभार्य्या । यथा । “शङ्करी शम्भुपत्नी च शिवा शतनिनादिनी । शुभा शुभप्रदा नित्या शतसूर्य्यसमप्रभा ॥” इति रुद्रयामले अन्नपूर्णासहस्रनामस्तोत्रम् ॥