वाचस्पत्यम्
शङ्कित || त्रि० शङ्का जातास्य तार० इतच् । १ भीते त्रिका० २ सन्दिग्धे ३ तितर्किते च ।
शब्दकल्पद्रुमः
शङ्कितः || त्रि (शङ्का जाता अस्य । शङ्का + इतच् ।)
भीतः । इति त्रिकाण्डशेषः ॥ (यथा, “अशङ्कमपि शङ्केत नित्यं शङ्केत शङ्कितान् ॥”)
वितर्कितः । इति शङ्काशब्दार्थदर्शनात् ॥ चोरक- नामगन्धद्रव्ये, पुं । इति राजनिर्घण्टः ॥