वाचस्पत्यम्
शङ्का || स्त्री शकि—अ । १ त्रासे २ वितर्के मेदि० ३ संशये च ।
शब्दकल्पद्रुमः
शङ्का || स्त्री (शङ्क + अः । स्त्रियां टाप् ।)
त्रासः । (यथा, हितोपदेशे । “शङ्काभिः सर्व्वमाक्रान्तमन्नं पानञ्च भूतले । प्रवृत्तिः कुत्र कर्त्तव्या जीवितव्यं कथं नु वा ॥”)
वितर्कः । इति मेदिनी ॥ (यथा, भागवते । ८ । २ । ६ । “यत्र संगीतसन्नादैर्नदद्गुहममर्षया । अभिगर्ज्जन्ति हरयः श्लाघिनः परशङ्कया ॥”)