वाचस्पत्यम्
शङ्कु || पु० शकि—उण् । १ स्वाणौ । २ भत्स्यभेदे । ३ शल्यास्त्रे अमरः । ४ कीलके । ५ दशकोटिसंख्यायाम् ६ तत्- सङ्क्याते । ७ महादेवे । ८ कलुषे मेदि० । ९ पत्त्रशिरा- जाले १० मेढ्रे हेमच० । ११ नखीनामद्रव्ये जटा० । १२ छाथापरिभाणार्थे काष्ठादिनिर्मिते, “अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुगमूलिका । शङ्कुसंज्ञा भवेच्चैव तच्छायां परिकल्पयेत्” इत्युक्ते १३ कीलभेदे च ज्यो० त० । १४ जनमेजयपुत्रभेदे भा० आ० ९५ अ० । १५ नवरत्नान्त- र्गतकविभेदे । दिक्साधनार्थं सू० सि० शङ्कुश्च दर्शितो यथा “शिलातलेऽम्बुसंशुद्धं वज्रलेपेऽपि वा समे । तत्र शङ्क्व- ङ्गुलैरिष्टैः समं मण्डलमालिखेत् । तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्द्वादशाङ्गुलम् । तच्छायाग्रं स्पृशेद् यत्र वृत्ते पूर्वापरार्द्धयोः । तत्र विन्दू विधायोभौ वृत्ते पूर्वापरा भिधौ । तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षिणोत्तरा । याम्योत्तरदिशोर्मध्या तिमिना पूर्वपश्चिमा । दिङ्मध्य- मत्स्यैः संसाध्या विदिशस्तद्वदेव हि” । तत्र दिक्सा- धनोधक्रमे प्रथममम्बु संशुद्धे जलवत् समीकृते शिला- प्रदेशे अपि वाथ वा तदभावेऽन्यत्र वज्रलेपे चत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः शङ्कस्थाङ्गुलवि- भागमानगृहीतैरभीष्टसंख्याकाङ्गुलैर्व्यासार्द्धरूपैर्वृत्तभव- क्रमात् लिखेत् । सर्वतः केन्द्राद्वृत्तपरिधिरेखा तुल्या स्यात् तथेत्यर्थः । ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्ये कल्पनया द्वादशसंख्याकाङ्गुलानि तुल्यानि यस्मिंस्तं द्वादशविभागाङ्कितमित्यर्थः । शङ्कुं समतलमस्तकपरि- धिकाष्ठदण्डं स्थाषयेत् । ततः पूर्वापरार्द्धयोर्दिनस्य प्रथमद्वितीयभागयोस्तच्छायःग्रं स्थापितशङ्कोश्छायान्त- प्रदेशो मण्डलपरिधौ यस्मिन् विभागे स्पृशेत् । दिनस्य प्रथमविभागेऽनुक्षणं छायाह्राद्वृत्ते यत्र प्रविशति दिन- स्यापरार्द्धे छायानुक्षणवृद्धेर्वृत्तं यत्र निर्गच्छतीत्यर्थः । तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्वापरसञ्ज्ञौ क्रमेण वृत्ते परिधिरेस्वायां कृत्वा तन्मध्वे पूर्वापरविन्द्व- न्तरमध्ये तिमिना मत्स्येन रेखा कार्य्या सा दक्षिणो- त्तररेखा भवति । मत्स्यस्तु विन्द्वन्तरालसूत्रमितेन व्यासार्द्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य वृत्त- द्वअयसंयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्या- कारं स्थानं भवति । तत्रैकः संयोगो मुखं बाह्यवृत्त- भागसम्मार्जनेनापरसंयोगस्तु पुच्छमितरवृत्तभागद्वयसम्मा- र्जनेन सुखपुच्छावध्यृज्वी रेखा दक्षिणोत्तररेखा । तत्र विन्दोः सव्यं रेखाग्रं दक्षिणा दिक् । पश्चिमविन्दोः सव्यं रेखाग्रमुत्तरा दिक् । अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः । शङ्कुरपि तत्स्थानान्निष्कास्य इति केवला दक्षिणोत्तररेखा स्थितेति तात्पर्य्यम् । दक्षिणो- त्तरदिशोर्मध्यस्थाने तिमिना दक्षिणोत्तररेखामितेत व्या- सार्द्धेन दक्षिणोत्तरस्थानाभ्यां पूर्ववत् प्रत्येकं वृत्तं वि- धाय पूर्ववत् सिद्धेन मत्स्येतेत्यर्थः । पूर्वपश्चिमा रेखा कार्य्या । तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा पश्चिम- विन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मार्जने केवला पूर्वापररेखापि सिद्धा । अथ रेखासंयोगस्थानात् दिक्- साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् । तद्वृत्तपरिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्चतुष्टयं वृत्ते सिद्धम् । तद्वत् यथा दक्षिणोत्तराभ्यां पूर्वापरा साधिता तत्प्रकारेणेत्यर्थः । एवकारोऽन्यप्रकारनिरा- सार्थकः । हि निश्चयेन । विदिशः कोणदिशो दिशां पूर्वादिसिद्धदिशां ये मध्यमत्स्या अघ्यवहितदिग्द्वयान्त- रोत्पन्ना लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः । रेखावृत्तसंयोगस्थत्वेन ज्ञेयाः” रङ्गना० । छायाशब्दे २९८६ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
शङ्कुः || पुं, (शङ्क्यतेऽस्मादिति । शङ्क + “खरुशङ्कु- पीयुनीलङ्गुगुलिगु ।” उणा० १ । ३७ । इति कुप्रत्यवेन निपातितः ।)
स्थाणुः । मुडा गाछ इति भाषा । मत्स्यविशेषः । शाँकोच इति भाषा । शल्यास्त्रम् । शेल इति भाषा । इत्य- मरभरतौ ॥ संख्याविशेषः । स तु लीलावती- मते दशलक्षकोटिः । कीलः । गॐज इति भाषा । (यथा, मनुः । ८ । २७१ । “निःक्षेप्योऽयोमयः शङ्कुर्ज्जलन्नास्ये दशाङ्गुलः ॥”)
ईशः । कलुषः । इति मेदिनी ॥ पत्रशिरा- जालम् । मेढ्रः । इति हेमचन्द्रः ॥ राक्षसः । इति शब्दमाला ॥ नखीनामगन्धद्रव्यम् । इति जटाधरः ॥ दीपसूर्य्ययोश्छायापरिमाणार्थं काष्ठादिनिर्म्मितः क्रमेण सूक्ष्माग्रद्बादशाङ्गुल- परिमितः कीलकः । यथा । “अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका । शङ्कुसंज्ञा भवेच्चैव तच्छायां परिकल्पयेत् ॥ मध्याह्नहीनैरादित्ययुक्तैश्छायाङ्गुलैर्हरेत् । षट्पूरितदिवादण्डं लब्धं दण्डादिकं भवेत् ॥ पूर्ब्बाह्णच्छाययातीतं पराह्णच्छाययैष्यकम् । शून्यैकरामबाणेभदिशो रुद्राः । ० । १ । ३ । ५ । ८ । १० । ११ । क्रमोत्क्रमैः ॥ आषाढादिषु मासेषु च्छाया माध्याह्निकी मता । अयनांशजमासान्ते व्युत्क्रमेणादितो बुधैः । संख्योक्तान्यदिने भागहारे वृद्धीतरे तथा ॥” इति ज्योतिस्तत्त्वम् ॥ तस्य नामान्तरं नरः । यथा । अथ करणसूत्रम् । “शङ्कुः प्रदीपतलशङ्कुतलान्तरघ्न- श्छाया भवेद्विनरदीपशिख्यौच्च्यभक्तः ।” उदाहरणम् । “शङ्कुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिः सार्द्धकरत्रया चेत् । शङ्कोस्तथार्काङ्गुलसंमितस्य तस्य प्रभा स्यात् कियती वदाशु ॥” न्यासः । शङ्कुः १२ भूः ३ दीपः ७ लब्धानि च्छायाङ्गुलानि १२ । इति लीलावत्यां छाया- व्यवहारः द्वादशाङ्गुलपरिमाणम् । यथा । विष्णु- धर्न्मोत्तरीयप्रथमकाण्डम् । “द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयन्तु शयः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिकः ॥” इति तिथ्यादितत्त्वम् ॥ (जनमेजयस्य पुत्त्रः । यथा, महाभारते । १ । ९५ । ८६ । “भवतो वपुष्टमायां द्बौ पुत्त्रौ जज्ञाते शतानीकः शङ्कुश्च ॥” * ॥
उग्रसेनस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । २४ । “कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहुस्तथा । राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः ॥”)