संस्कृत-शब्दकोशः

शङ्कु शङ्कुचि

शङ्कुकर्ण

वाचस्पत्यम्

शङ्कुकर्ण ||‍ पु० शङ्कुरिव कर्णावस्य । १ गर्दभे त्रिका० । दानव- भेदे हरिवं० ३ अ० । ३ स्कन्दानुचरभेदे भा ४७ अ० ।


शब्दकल्पद्रुमः

शङ्कुकर्णः || पुं, (शङ्कू इव कर्णौ यस्य ।)
गर्द्दभः । इति त्रिकाण्डशेषः ॥ (दानवदिशेषः । यथा, हरिवंशे । ३ । ८१ । “शङ्कुकर्णो विवादश्च गवेष्ठो दुन्दुभिस्तथा ॥” नागविशेषः । यथा, महाभारते । १ । ५७ । १५ । “शङ्कुकर्णः पिठरकः कुठारसुखसेचकौ ॥” शङ्कुसदृशकर्णविशिष्टे, त्रि । यथा, भागवते । ७ । ९ । १५ । “आन्त्रस्रजः क्षतजकेशरशङ्कुकर्णा- न्निह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥”)



Correction: